पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/५३३

एतत् पृष्ठम् परिष्कृतम् अस्ति
५०७
तत्त्वज्ञानानन्तरमुदासीनतया प्रकृतेर्दर्शनम् ।


किं पुनरीदृशेन तत्व साक्षात्कारेण सिद्ध्यतीत्यत आह-


 तेन निवृत्तप्रसुवामर्थवशात सप्तरूपविनवृत्ताम् ।
 प्रकृतिं पश्यति पुरुषःप्रेक्षकवदवस्थितः स्वच्छः ॥६५॥


"तेन" इति । भोगविवेकसाक्षात्कारौ हि प्रकृतेः प्रसातव्यौ । तौ च प्रसूताधिति नास्याः प्रसोतव्यमव- शिष्यत इति निवृत्तप्रसवा प्रकृतिः । विवेकज्ञानरूपो यो ऽर्थस्तस्य वशः सामर्थ्यम् तस्मात् । अतत्वज्ञानपूर्व- । काणि खलु धर्माधर्माज्ञानवैराग्यावैराग्यैश्वनैश्वर्या णि । वैराग्यमपि केवलतौष्टिकानामतत्त्वज्ञानपूर्वकमेव । तत्र तत्त्वज्ञानं विरोधित्वेनातत्त्वज्ञानमुच्छिनत्ति । का-




उपजीवकत्वसङ्गत्याऽऽर्यामवतारयति । किं पुनरोदृशेनेति । तत्त्वसाक्षात्कारेणेत्यनेनेति मूलस्थपदं व्याख्याय निवृत्तः प्रभवः प्रजारूपकार्योत्पादनं यस्या इति विग्रहे प्रसवघटकीभूतकार्यं द- शयति । भोगेति । विवेकसाक्षात्कारपदेन भेदसाक्षात्कारो बो- ध्यः । यच्छब्दार्थामाह । निवृत्तप्रसवा प्रकृतरित ।

 न चैवमन्येषां ज्ञानाभावेऽपि मुक्तिप्रसङ्ग इति वाच्यम् । ज्ञा- निनं प्रत्येव कार्याजनकत्वात् । अत एव निवृत्तप्रसवां प- इयतीत्युक्तम् । न तु सा जीर्णकामिनीव निवृत्त प्रसवा भव- तीत्यर्थः । तत्त्वज्ञानस्यैवाज्ञानविरोधित्वात्सप्त रूपाणाम- ज्ञानपूर्वकत्वमाह । अतत्वज्ञानपूर्वकाणीति । वैराग्यस्य विषय- दोषदर्शनहेतुतत्त्वज्ञानपूर्वकत्वात्कथमज्ञानपूर्वकत्वमित्यत आह । वै- राग्यमपीति । तुष्टिसम्बन्धनस्तौष्टिकास्तुष्टिभेदस्तु पूर्वमुक्त एव । स्थागतिनिवृत्तावित्यभिप्रायेणाह । निष्क्रिय इति । मुले दृष्टा- न्तमाह । प्रेक्षकवदिति । तत्त्वज्ञावदित्यर्थः । स्वस्थः । स्वस्मिन् चिदेकरसे आत्मनि तिष्ठतीत्यर्थः । अत एव समानतन्त्रातरे "तदा