रणनिवृत्या च सप्तरूपाणि निवर्तन्त इति सप्तरूपवि
निवृत्त प्रकृतिः । “अबस्थितः" इति निष्क्रियः, “स्व-
च्छः” इति रजस्तमोवृत्तिकलुषया बुद्ध्या ऽसम्भिन्नः ।
सात्त्विक्या तु बुद्ध्या तदा ऽप्यस्य मनाक् सम्भेदो ऽस्त्ये-
व, अन्यथैवम्भूतप्रकृतिदर्शनानुपपत्तेरित ॥ ६५ ॥
दुष्टुः स्वरूपेऽवस्थानम्" "वृत्तिसारूप्यामितरत्रे" त्युक्तम् । “असा- वात्मा कस्मिन्प्रतिष्ठितः ? स्वै महिम्नी" ति श्रुतेश्च । स्वच्छ इति पाठाभिप्रायेण व्याख्यायामाह । स्वच्छ इतीति ।
ननु पुरुषस्य स्वच्छत्वे प्रकृतिं पश्यति पुरुष इत्यनुपपन्नं प्रकृ- तिविषयकदर्शनाश्रयबुद्ध्यसंसर्गग्रहस्य नाशेन पुरुषस्य ज्ञानाश्रय- तया भानासम्भवादित्याशङ्कायां बुद्ध्यसंसर्गाग्रहं विना सत्त्वपुरु- षान्यताख्यातेरसम्भवतया प्रकृत्यविवेकनाशेन रजस्तमोवृत्तिकलुषि- तबुद्ध्यविवेकनाशेऽपि विनश्यदवस्थसात्त्विकबुद्ध्यविवेक आवश्यक इत्यभिप्रायेण स्वच्छशब्दार्थमाह । रज इत्यादि । असम्भिन्नः। सम्यग्भिन्नः-सम्भिन्नः । मनाक् सम्भिन्नः असम्भिन्नः । तत्रार्था- पत्तिं प्रमाणयति । अन्यथेति । न च विवेक सति कथमविवेकः सम्भवति इति वाच्यम् । प्रकृतिविवेकेन प्रकृत्यविवेकनाशेऽपि तत्का- यविवेकस्य कारणाविवेकनाशनाश्यस्य विवेके सत्यपि किञ्चित्का- लसम्भवात् । अत एव ज्ञानेनाज्ञाने नष्टे तरकार्यस्य शरीरादेः साक्षात्कार ज्ञाने विरोधाभावेऽपि अज्ञाननाशनाश्यतया किञ्चित्कालावस्थाने बाधकं न पश्याम'इति वेदान्तिवाद्युक्तिरपि सङ्गच्छते । तत्र "तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्य"इत्यादि श्रुतिः प्रमा- णम् । न च विनश्यवस्थबुद्ध्यविवेकस्य कार्यकारित्वं न सम्भ- वतीति वाच्यम् । विनश्यदवस्थस्य ज्ञानस्य संस्कार कार्यकारित्व- वृत्तस्यापि तत्सम्भवात् ॥ ६५ ॥ ।