पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/५३५

एतत् पृष्ठम् परिष्कृतम् अस्ति
५०९
तत्त्वज्ञाने सति संयोगस्य सर्गाजनकता ।


स्थादेतत्-निवृत्तप्रसवामिति ने मृष्यामहे । संयो- गकृतो हि सर्ग इत्युक्तम्, योग्यता च संयोगः, भोक्तृ- त्वयोग्यता च पुरुषस्य चैतन्यम्, भग्धत्वयोग्यता च प्रकृतेर्जडत्वं विषयत्वञ्च । न चैतयोरस्ति निवृत्तिः । न च करणीयाभावान्निवृत्तिः, तज्जातीयस्यान्यस्य करणी- यत्वात् पुनः पुनः शब्दाशुपभोगवत्, इत्यत आह-


 दृष्टा मयेत्युपेक्षक एको, दृष्टा ऽहमिति विरमतेऽन्या ।।
 सात संयोगे ऽपि तयोः प्रयोजनन्नास्ति सर्गस्य ॥६६॥


“दृष्टा” इति । करोतु नाम पौनःपुन्थेन शब्दाद्युप- भोगम्प्रकृतिर्यया विवेकख्यातिर्न कृता, कृतविवेकख्या तिस्तु शब्दाशुपभोगन्न जनयति । अविवेकख्यातिनिब- न्धनो हि तदुपभोगो, निवन्धनाभावे न तद्भवितुमर्हति, अङ्कुर इव बीजाभावे । प्राकृतान् हि सुखदुःखमाहात्मनः




 प्रकृतानिवृत्तप्रसवप्रतिपादक सहकारिकारणाभावकथनेनोपाद्धा- तसङ्गतिं सूचयन्नार्यामवतारयति । स्यादेतदिति । असहने हेतु- माह । संयोगकृत इति । उक्तम्"तस्मात्तत्संयोगा" दिः त्यत्रेत्यर्थः । संयोगस्यानित्यत्वमाशङ्क्याह । योग्यता च संयो- ग इति । योग्यताया यावद्द्रव्यभावित्वान्नेदानीन्तन्निवृत्तिरित्यर्थः। सुषुप्त्यादौ भेाक्तृत्वाभावमाशङ्कयाह । भोक्तृत्वयोग्यतेति । एतयोः । भोक्तृत्वभोग्यत्वयोग्यत्वयोः । अविवेकख्यातिरूप- सहकारिकारणाभावाद्भोगं न जनयतीत्याह । करोतु नामेति । उपभोगं न जनयति । विवकिनं प्रति इति शेषः । तेनान्यान्प्र- ति भोगजननेऽपि न क्षतिः । दृष्टान्तमाह । अङ्कुर इवेति । तथा च सुत्रं । “नान्योपसर्पणेऽपि मुक्तोपभोगा निमित्ताभावादिति” (सा० द० अ० ६ सू० ४४) उपभोगे निमित्तानां सोप-