पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/५३९

एतत् पृष्ठम् परिष्कृतम् अस्ति
५१३
परममुक्तेः प्रतिपादनम् ।


ष्ठति ॥ ६७ ॥

 स्यादितत्-"यदि संस्कारशेषादपि धृतशरीरस्तथा Sपि कदा ऽस्य मोक्षा भविष्यति? इत्यत आह -


 प्राप्ते शरीरभेदे चरितार्थत्वात् प्रधानविनिवृत्तौ ।
 ऐकान्तिकमात्यन्तिकमुभयं कैवल्यप्राप्नोति ॥ ६८ ॥

 

 "प्राप्त" इति । अनारब्धविपाकानान्तावत् कर्माश- यानां तत्वज्ञानाग्निना बीजभावो दग्धः । प्रारब्धविपा- कानान्तूपभोगेन क्षये साति "प्राप्ते शरीरभेदे" इति-शरीर- विनाशे-चरितार्थत्वात्" इति-कृतप्रयोजनत्वात् । प्रधानस्य तम्पुरुषम्प्रति विनिवृत्तौ-"ऐकान्तिकम्"--


 भावादनिर्मोक्ष प्रसङ्गश्च । श्रुतिस्तु पूर्वं व्याख्याता ॥ ६७ ॥
 प्रसङ्गसङ्गस्याऽर्ऽर्यामवतारयति । स्यादेतदिति


 "भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्व संशयाः ।।
 क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥ १ ॥

 ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुतेऽर्जुन' ।

 इत्यभिप्रायेणाह । तत्वज्ञानाग्निनेति
 "नामुक्त क्षीयते कर्म कल्पकोटिशतैरपि ।
 अवश्यमेव भोक्तव्यं कृतंं कर्म शुभाशुभ" मित्यभिप्रायेणाह ।

उपभोगेनेति । शरीरविनाशे इति ।

 ननु सार्वदिकभोगासम्भवेन तच्छिद्रेषु कर्मकरणसम्भवे ते- षां क्रियमाणानामेवाऽऽरब्धविपाकत्वेनोपभोगेन क्षयावश्यकत्वे पुनः पुनस्तच्छिद्रेषु कर्मकरणावश्यकत्वान्न मोक्षः सम्भवतीति चे- न्न । क्रियमाणानापसंश्लेषात् तत्र चं “यथा पुष्करपलाशमापो न श्लिष्यन्ते एवमेवंविदि पापं कर्म न श्लिष्यते । तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतेवहास्य सर्वे पाप्मानः प्रदूयन्ते" "तदधिगमे उत्त-



  ६५