पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/५४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२०
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

क्ष्ये अथ सम्पत्स्ये्" ‘नाभुक्तं क्षीयते कर्म’, विवादाध्यासितानि कर्माणि भोगादेव क्षीयन्ते, अचीर्णप्रायश्चित्तकर्मत्वाद् आरब्धशरीरकर्मवत्, इत्यादिश्रुतिस्मृतिन्यायविरोधात्, उक्तश्रुतिस्मृत्योरदत्तफलभुज्यमान- फलकर्मातिरिक्तकर्मक्षयपरत्वात् ।

श्रुतिस्तु-अस्य तत्त्वसाक्षात्कारवतस्तावदेव चिरं विलम्बः, यावन्न विमोक्ष उपात्तकर्मराशेः सकाशात्फलोपभोगेन । अथ तस्मिन्सति सम्पत्स्यते कैवल्येनेति व्याख्येया ।

अन्ये तु-तस्य तावदेव विलम्बो यावदज्ञानानिवृत्तिर्ने भवति तन्निवृत्तौ मोक्षं प्राप्नोतीत्यर्थ इत्याहुः ।

यदप्युक्तम् आत्मसंयोगरूपव्यापारनाशेन तद्विशिष्टमनोरूपदुःखनाश इति तन्न । आत्मन्ः सर्वमूर्त्तांयोगित्वरूपविभुत्वाभाव फ्विभुत्वाप्रसङ्गात् । व्यापकं नित्यं विभुमात्मान विहाय नित्य वतीत्युक्तिनैयायिकानामेव शोभते । यथा आत्यन्तिकदुःखनिवृत्तिर्न मोक्षस्तथा वक्ष्याम इति ।

यद्यपि “न वा अरे पत्युः कामाय पतिः प्रियो भवति आत्मनस्तु कामाय पतिः प्रियो भवति" इत्यादिश्रुत्या जीवात्मैक्यगतप्रियत्वबोधिकया तमुपक्रम्योक्तया “आत्मा वा अरे द्रष्टव्यः" इत्यादिश्रुत्या “आत्मानं चेद्विजानीयादयमस्मीति पूरुषः । किमिच्छन्कस्य कामाय शरीरमनु संज्वरे्त्" “तरति शोकमात्मवित्" इत्यादिश्रुत्या स्वात्मसाक्षात्कार एव मोक्षहेतुरिति गम्यते । युक्तं चैतत्, तस्यैव मिथ्याज्ञानविरोधित्वादिति । यद्विषयसाक्षात्कारो मोक्षहेतुस्तद्विषयकमननं निदिध्यासनं च मोक्षहेतुः, ईश्वरमननं तु न तत्रोपयोगि, तथाऽपि “तमव विदि त्वाऽति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय" इत्यादिश्रुतौ स्वात्मज्ञानस्येव तज्ज्ञानस्यापि मोक्षहेतुत्वश्रवणात्, “द्वे ब्रह्मणी वेदि-