पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/५४०

एतत् पृष्ठम् परिष्कृतम् अस्ति
५१४
सटीकसाङ्ख्यतत्वकौमुद्याम् ।


अवश्यम्भवि "आत्यन्तिकम् -अविनाशि-इत्युभ- यं "कैवल्यम्” दुःखत्रयविगमम्प्नोति पुरुषः ॥ ६८ ॥

 प्रमाणेनोपादिते ऽप्यत्यन्तश्रद्धोत्पादनाय परमर्षि- पूर्वकत्वमाह-


 पुरुषार्थज्ञानमिदं गुह्यम्परमर्षिणा समाख्यातम् ।
 स्थित्युत्पत्तिप्रलयाश्चिन्यन्ते यत्र भूतानाम् ॥ ६९ ॥


 “पुरुष” इति ।“गुह्यम्” गुहानिवासि, स्थुलधियां दुर्बैधमिति यावत् । “परमर्षणा” कपिलेन तामेव श्रद्धामागमिकत्वेन द्रढयति-"स्थित्युत्पत्तिप्रलयाश्चि न्यन्ते यत्र भूतानाम्" । इति । 'यत्र’ ज्ञाने-यदर्थम्,--- यथा चर्मणि द्वीपिनं हान्ति' इति । “भूतानाम्-प्रा- णिनां स्थित्युत्पत्तिप्रलयाः आगमैः चिन्त्यन्ते ॥६९॥




रपूर्वाधयोरश्लेषविनाशौ तद्व्यपदेशात्” [ ब्र० सं० ४-१-१३] इत्यादि प्रमाणम् । पुनः शरीरान्तरात्पत्तिः कुतो नेत्यत आह । चरितार्थत्वादिति । बुद्धितत्वादिद्धारा कृतभोगापवर्गलक्षण- प्रयोजनकत्वादियर्थः । मोक्षस्वरूपमाह । ऐकान्तिकामति । अविनाशि । स्वसमानाधिकरणेत्याद्युक्तरूपम् । पुरुष उत्पन्ना- त्मतत्वसाक्षात्कारवान् प्रारब्धक्षये सत्यवश्यं प्राप्नोतीति समुदायार्थः ॥ ६८ ॥

 उपोद्धातसङ्गत्या आर्यामवतारयति । प्रमाणेति । परमर्षिपूर्व- कत्वकथनेन विप्रलिप्सादिदोषनिरसनद्वारा श्रद्धोत्पत्तिः सम्भ- वतीति सूचितम् । श्रद्धाया ज्ञानाङ्गत्वे "श्रद्धावितो भूत्वाऽऽत्म- न्येवात्मानं पश्येत्" "श्रद्धावान् लभते ज्ञान” मित्यादिश्रुति- स्मृतयः प्रमाणम् । कपिलस्य महर्षित्वे तु "ऋषिं प्रसूते कपिलम् यस्तमग्रे ज्ञानैर्बिभर्ति" इत्यादि वाक्यम् । यत्रेति । निमित्तसप्त-