पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/५४२

एतत् पृष्ठम् परिष्कृतम् अस्ति
५१६
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

 एतच्च शास्त्रम्, सकलशास्त्रार्थसूचकत्वात्, न तु प्रकरणमित्याह--


 सप्तयां किल ये ऽर्थास्ते ऽर्थाः कृत्स्नस्य षष्टितन्त्रस्य।
 आख्यायिकाविरहिताः परवादविवर्जिताश्चापि ॥ ७२ ॥


 सप्तत्याम्” इति । तथा च राजवार्तिकम् ॥
 प्रधानास्तित्वमेकत्वमर्थवत्त्वमथान्यता ।
 पारार्थ्यं च तथा ऽनैक्यं वियोग योग एव च ॥
 शेषवृत्तिरकर्तृत्वं मौलिकाथः स्मृता दश । .
 विपर्ययः पञ्चविधस्तथोक्ता नव तुष्टयः ॥
 करणानामसामर्थ्यमष्टाविंशतिधां स्मृतम् ॥
 इति षष्टिः पदार्थानामष्टभिः सह सिद्धिभिः ।




निराकुर्वन्पूर्वोक्तसङ्गत्याऽऽर्यामवतारयति । एतच्चेति

 नन्वेवमेतस्य वैयर्थ्यं तेनैव निर्वाहादित्यत आह । सूचकत्वा- दिति । सुचकत्वं च सङ्क्षिप्ताभिनववाक्यैर्निखिलार्थप्रतिपादक- त्वं न तु मुख्यशास्त्रैकदेशप्रतिपादकत्वमित्यर्थः ।

 न चाख्यायिकादिरहितत्वेन न्यूनतया प्रकरणत्वमिति वा- च्यम् । मंदमत्युपयोग्याख्यायिकानां दिग्विजयाद्याकक्ष्युिपयोगप- रवादनिराकरणस्य मोक्षार्थिनां प्रेक्षावतामत्यन्तनुपयोगात् । तथा च कपिलोक्तषडध्याय्यां चतुर्थेऽध्याये आख्यायिका पञ्चमे परवादस्तच्चोभयमत्र न निरूपितमितरत्सर्वमत्र निरूपितमित्य- र्थः । षष्टितन्त्रस्य परवादविवर्जिता एते एवार्थे इत्यर्थे तदीवरा- जवात्तिकै प्रमाणयति । तथा च राजवार्त्तिकमिति । अर्थवत्त्व - म् । प्रत्यादिरूपत्वम् । अन्यता । प्रधानपुरुषयोरन्यत्वम् । नै- क्यम् । पुरुषाणां बहुत्वम् । शेषवृत्तिः । सूक्ष्मस्थूलशरीरद्वय- स्थितिः । मौलिकार्थाः । प्रधानीभूता अर्थाः । विपर्ययादीनां हे-