पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/५४३

एतत् पृष्ठम् परिष्कृतम् अस्ति
५१७
प्रकृतग्रन्थस्य प्रकरणत्वनिरासः ।


 सेयं षष्टिपदार्थी कथितेहेति सकलशास्त्रकथनान्नेदं प्रकरणमपि तु शास्त्रमेवेदमिति ।

 एकत्वमर्थवत्वं पारार्थ्यं च प्रधानपधिकृत्योक्तम् । अन्यन्वमकर्तृत्वं बहुत्वं चेति पुरुषमधिकृत्य, अस्तित्वं योगो वियोगश्चैत्युभयमधिकृत्य । स्थितिरिति स्थूलसू- क्ष्ममधिकृत्य ॥ ७२ ॥


. तुभूता अथा इति यावत् । चुलिकार्था इति क्वचित्पाठस्तस्या- प्युक्त एवार्थः । इति षष्टिरित्यस्य पदार्थानामित्यत्रान्वयः । षष्टि- पदार्थानामत्रापि कथनान प्रकरणत्वमस्येत्याह । सेयमितिकथिता इति । तथा हि । संघातपरार्थत्वादित्यादिना पुरुषास्तित्वम् ।“भेदानां परिमणात्"। "कारणमस्त्यव्यक्त" मित्यार्याद्वयेन प्रधानास्तित्वम् । “हेतुमदानित्य" मित्यादिना प्रधानस्यैकत्वम् । "प्रीत्यप्रीतिविषादात्मकाः" इत्यनेनार्थवत्त्व- म् । "त्रिगुणमविवेकि विषयः" इत्यनेन प्रधानपुरुषयोरन्य- त्वम् । “नानाविधैरुपायै"रित्यादिना प्रधानस्य पारार्थ्यंम् । “जननमरणकरणानामि" त्यादिना पुरुषस्य बहुत्वम् । "प्राप्ते शरीरभेदे चरितार्थत्वादि" त्यादिना उभयोर्वियोगः । "पुरुषस्य दर्शनार्थीम" त्यादिनोभयोर्योगः । “सम्यक् ज्ञा- नाधिगमादि" त्यादिना शरीरद्वयस्य शेषवृत्तिः। "तस्माच्च विपर्यासादि त्यादिना पुरुषस्याकर्तृत्वम् । विपर्ययतुष्ट्य सामर्थ्य- सिद्धीनां पञ्चाशद्भेदास्तु "पञ्च विपर्यभेदा" भवन्ती त्याद्या- र्यपञ्चभिरुक्ता इति ।

 वार्त्तिकं विभागेन योजयति । एकत्वमित्यादिना । नैक्य- मित्यस्यार्थमाह । बहुत्वं चेतीति । शेषवृत्तिरित्यस्यार्थमाह । स्थितिरिर्ताति।