पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/५४४

एतत् पृष्ठम् परिष्कृतम् अस्ति
५१८
सटीकसाङ्ख्यतत्वकौमुद्याम् ।


मनांसि कुमुदानीव बोधयन्ती सतां मुदा ।

श्रीवाचस्पतिमिश्राणां कृतिस्तात्तत्त्वकौमुदी


इति श्रीवाचस्पतिमिश्रकृता सांख्यतत्वकौमुदी

समाप्ता ॥




 नन्वेतद्ग्रन्थकरणस्य स्वार्थत्वाभावे परार्थतैव वाच्या सा च सम्भवति परेषां पदवाक्यादिमाननिपुणानामेतादृशग्रन्थकरणस- र्थानां द्वेषादिसम्भवेन ग्रहणासम्भवात् । मन्दानां विद्वन्मन्या सुतरामिति चैन्न । पदवाक्यमाननिपुणानां पक्षपातशून्याः सतां सम्भवादित्यभिप्रायेणाह । मनांसीतिस्तात् स्यादित्यर्थः ॥ ७४ ॥


इति श्रीपण्डितवंशीधरकृता सांख्यतत्ववि

भाकरसमाख्या सांख्यतत्वकौमुदीव्या-

ख्या समाप्ता ॥