तव्ये' इत्यत्र ब्रह्मवेदनस्यापि प्रकृततया “श्रोतव्यो मन्तव्यः" इत्यत्र तस्यान्वयात् इश्वरसाक्षात्कारद्वारैव स्वात्मसाक्षात्कारस्य हेतुत्वावश्यकत्वे ईश्वरसाक्षात्कारे जीवन्मुक्तिपरमुक्तयोरुपायमीश्वर- मननमुपयुज्यते इति ‘स्वर्गापवर्गयोर्मागमामनन्ति मनीषिणः' इत्युदय- नाचार्याकृतकुसुमाञ्जलेराशयं वर्णयन्ति वर्द्धमानोपाध्यायादय इति ।
तदपरे न क्षमन्ते । परस्य परात्मतद् गुणानां साक्षात्कारासम्भवात् । सम्भवेऽपि तस्य स्वात्मविषयकापरोक्षभ्रमानिवर्त्तकत्वाच । एतेनेश्वरज्ञानमेवापेक्षितमिति परास्तम् । तदीयमनननिदिध्यासनयोर्वैयर्थ्यापत्तेश्च । अत एव स्वात्म- साक्षात्कारप्रतिबन्धकपापनाशद्वारा तदीयमनननिदिध्यासनयोरुपयोग इति परास्तम् । क्लष्टसदृष्टसाक्षात्काररूपद्वारसम्भवेऽदृष्टद्वारकल्पनायां गौरवान्मानाभावाच्च । ईशात्मनोर्भेदे “मैत्रेय्यात्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञाननेदं सर्वं विदितम्" "ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्रह्म वेद, सर्वं विदितं " ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्रह्म वेद, सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वे वेदेदं ब्रहेदं क्षत्रमिमे लोका इमे देवा इमानि भूतानीदं सर्वे यदयमात्मा" इत्याद्यग्रिमतनात्मस्वरूपनिरूपणपरश्रुतिविरोधापत्तेः । न च “तमेव विदित्वा" इत्यादिश्रुतिविरोधस्तवाप्यस्तीति वाच्यम् । “आत्मा वा अरे द्रष्टव्यः" । इत्याद्युक्त्तश्रुतियुक्त्त्येककवाक्यतयाऽन्तःकरण शुद्धिसाधनोपासनाद्वारा मोक्षे तात्पर्यात्। अत एव “पुरुष एवेदं सर्वम्'इत्याद्युपपद्यतेऽन्यथा प्रत्यक्षविरोधापत्तेः । अत एव न बाधायां सामानाधिकरण्यम् । न च मयाऽप्येवं व्याख्येयमिति वाच्यम् | ईश्वरसाक्षात्कारद्वारेत्यादिस्वोक्ते विरोधापत्तेरिति ।
हेयाया ग्रहणे निमित्तं दर्शयितुं तां विशिनष्टि-जुषमाणामिति । प्रीत्यर्थकजुषिधातोः कर्तरि शानच्प्रत्यये इदं रूपम् । तथाच जुषमाणां सुखाकारेण परिणताम् । अत्र विषयत्वं द्वितीया-