यिताऽवधेयवचनो भवति प्रेक्षावताम् । अप्रतिपित्सितमर्थं तु प्रतिपादयन् ‘नायं लौकिको नापि परीक्षकः’ इति प्रेक्षावाद्भिरुन्मत्तवदुपेक्ष्येत । स चैषां प्रातिपित्सितोऽर्थो यो ज्ञातः सन् परमपुरुषार्थाय कल्पते,
त्पत्तेः । किं तदाख्याति ? इत्याकाङ्क्षायां रूढ्यर्थतावच्छेदकमुक्तं महाभारतादौ
सङ्ख्यां प्रकुर्वते चैव प्रकृतिं च प्रचक्षत ।
तत्त्वानि चतुर्विंशतिस्तेन साङ्ख्याः प्रकीर्तिताः ॥ १ ॥
इत्यादि ।
प्रतिपित्सितं-ज्ञातुमिष्टम् | ज्ञातत्वप्रकारकेच्छाविषय इति यावत् । अवधेयवचनः श्रोतव्यवचनः, श्रद्धेयवाक्य इति यावत् । ननु बालबुद्धीनामजिज्ञासितेऽप्यर्थे प्रवृत्तिदर्शनात्तदर्थमेव शास्त्रं स्यादित्यत आह-प्रेक्षावतामिति । प्रकर्षेणेक्षा प्रेक्षा हेयोपादेयविषयिणी बुद्धिस्तद्वताम् । एकवचनं तु तादृशस्य दौर्लभ्यसूचनाय । तदेव व्यतिरेकेण समर्थयते अप्रतीति । ननु पञ्चविंशतितत्त्वविदो लौकिकव्यवहाराती तत्वेऽपि शास्त्रच्यवहारकुशलत्वात्कथं प्रेक्षावद्भिरुपेक्षणीयत्वमितेि चैत्, तत्राह-परीक्षक इति । सुखसाधनयागादीनां प्रतिपित्सि- तार्थत्ववारणाय स्वयमेव प्रतिपेित्सितमर्थं दर्शयति--स चैषामिति । यो ज्ञातः सन् परमपुरुषार्थाय कल्पते स पेक्षावतां प्रतिपित्सितोऽर्थ इत्यन्वयः । स चात्यन्तदुःखहानिरुपमोक्षसाधनी- भूतसत्त्वपुरुषविवेकविषयौ सत्त्वपुरुषौ तादृशमुख्यपदार्थावित्यर्थः । व्यक्ताव्यक्तज्ञलक्षण इत्यन्ये । एतदेवोक्तं भाष्ये ‘तदिदं मोक्षशास्त्रं चिकित्साशास्त्रचतुर्व्यूहम् । यथा हि रोगः, आरोग्यम्, रोगानिदानम्, भैषज्यामिति चत्वारो व्यूहाः समूहाश्चिकित्साशास्त्रस्य प्रातिपाद्याः, तथैव हेयम्, हानम्, हेयहेतुः, हानोपायश्चेति