दुःखत्रयाभिघाताजिज्ञासा तदपघातके हेतौ।
दृष्टे साऽपार्था चेन्नैकान्तात्यन्ततो ऽभावात् ॥ १ ॥
एवं हि शास्त्रविषयो न जिज्ञास्येत् , यदि दुःख्खं नाम जगाति न स्यात्, सद् वा न जिह्वासितम्, जिहासितं वा अशक्यसमुच्छेदम् । अशक्यसमुच्छेदत्ता च द्वेधा-दुःखस्य नित्यत्वात्, तदुच्छेदोपायापरिज्ञानाद्वा । शक्यसमुच्छेदत्वेऽपि च शास्त्रविषयस्य ज्ञानस्यानुपायत्वाद्वा, सुकरस्योपायान्तरस्य सद्भावाद्वा ॥
तत्र ‘न तावद् दुखं नास्ति, नाप्यजिहासितम्’इत्युसितत्वाभावात् । नहि सम्भवति अजिहासितस्य स्वहानहेतौ जिज्ञासाहेतुत्वम्, सुखसम्बन्धादौ तथा अदर्शनात् । तथा च तस्य प्रतिकूलवेदनीयत्वेन जिहासितत्वं व्युत्पादयन् व्यतिरेकमुखेन जिज्ञासां समर्थयते—एवं हीत्यादिना । एवं वक्ष्यमाणप्रकारे सति ।
ननु शास्त्रविषयविज्ञानस्यार्थसिद्धेरभावात्किं तज्जिज्ञासयेत्याशङ्का व्यतिरेकमुखेन तृतीयविकल्पावान्तरविभागसहितविकल्पपञ्चकद्वारा विषयस्य प्रयोजनवत्वेन जिज्ञासां समर्थयते—एवं हीत्यादिना इत्यन्ये ।
शास्त्रविषयः प्रकृतिपुरुषरूपः । जिहासितम् विभागाश्रयत्वेनेच्छाविषयम् । ‘यदि दुःखम्’ इत्यत्रत्य-‘यदि'शब्दोऽत्रानुषञ्जनीयः । तथाच 'सद् वा यदि न जिहासितम्'इत्यन्वयः । एवं जिह्वासितमित्यादावप्यूह्यम् । तत्र तेषु मध्ये । ‘तावत्' इत्यस्य ‘उक्तम्'इत्यत्रान्वयः । इत्युक्तामिति । अत्रेतिशब्दः ‘तत्र न तावत्'इत्याद्यर्थद्वयपरः । तथाच ‘दुःखत्रयाभिघाताद्’