न्धोऽभिघात इति । एतावता प्रतिकूलवे द्नीयत्वं जिहासाहेतुरुक्तः ।
यद्यपि न सन्निरुध्यते दुःखम्, तथाऽपि तदभिभवः शक्यः कर्तुमित्युपरिष्टादुपपादयिष्यते ।
तथा चोपपन्नम् “तदपघातके हेतौ” इति । तस्य दुःखत्रयस्य अपघातकस्तदपघातकः । उपसर्जन्धादिपदं विहायाभिघातपदोपादानं तु सम्बन्धिविशेषलाभाय, तस्य च प्रतिकूलतासूचनाय । नाप्यजिहासितमित्यत्रोक्तहेतुमुपसंहरति-एतावतेति एतावता-चेतनाशक्तेः प्रतिकूलतया दुःखसम्बन्धकथनेन। रजःपरिणामभेदस्य दुःखस्यैतन्मते नित्यत्वाद- शक्यसमुच्छेदतेत्युक्तं तदनूद्य निराकरोति--यद्यपीत्यादिना । न सन्निरुध्यते-निरन्वयं यथा स्यात्तथा न नश्यति । तद्भिभवः, अनागतस्य दुःखस्यानुत्पाचिः । यथा चैतत्तथोक्तं प्राक् । यत्तु अभिभवो नाम विवेकख्यत्या तदसम्बन्धतामात्रम्, न तु तस्य नाशः, कार्यमात्रस्य सत्यादित्वात् इति । तन्न । एतन्मते सम्बन्धस्यापि सत्यत्वात् । सम्बन्धिनः सत्त्वे सम्बन्धस्यापि एतेन विवेकिनमात्मानं विहायान्यत्र दुःखं गच्छतीति परास्तम् । उपरिष्टादिाति ।
तेन निवृत्तप्रसवामर्थवशात्सप्तरूपविनिवृत्ताम् ॥
प्रकृतिं पश्यति पुरुषः प्रेक्षकवदवस्थितः स्वस्थः । इत्यादाविति । (सां० का० ६५ )
प्रसवनिष्ठत्या तन्निरोधस्य व्युत्पादनीयत्वादत्र नोक्तम् । प्रति कूलवेदनीयत्वेन दुःखस्य जिहासितत्वात्स्वापघातकाजिज्ञासाहेतुत्वं सम्भैवतीत्युक्तमुपसंहरति-तथाचोपपन्नमिति । तथाशब्दस्तस्मादित्यर्थे । तथाच जिहासितत्वात्तस्योक्तहेतुत्वमुपपन्नमित्यर्थः ।