पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/६७

एतत् पृष्ठम् परिष्कृतम् अस्ति
३३
शास्त्रविषयजिज्ञासाऽवतरणिका ।

नस्यापि बुद्धया सन्निकृष्य(१) ‘तदा' परामर्शः ।


ननु तदादीनां पूर्वप्रधानपरामर्शकत्वात्कथं समासनिविष्टस्योपसर्जनस्य दुःखस्य परामर्श इत्याशङ्काह-उपसर्जनस्येति । तथाच शक्त्यानन्त्यभिया तदादेर्बुद्धिविषयतावच्छेदकवति शक्त्तेरावश्यकतया तदा उपसर्जनपरामतर्शेऽपि न क्षतिरित्यर्थः ।

नच बुद्धिविषयतावच्छेदकत्वेनावच्छेदकभानम् । घटत्वाद्यनुगमय्य बुद्धिविषयतावच्छेदकत्वस्योपलक्षणतया निवेशे तत्र शक्तेरभावात् । पदार्थोपस्थितिस्तु प्रकरणादिना घटत्वादेनैव नतु बुद्धिविषयतावच्छेदकत्वेनातो न पदार्थोपस्थितौ शाब्दबोधे वा तस्य भानमिति ध्येयम् ।

सन्निकृष्य, उपस्थाप्य । निष्कृष्येति पाठे तु समासात्पृथक्- तयोपस्थाप्येत्यर्थः । अत्राप्युपसर्जनस्येति विभक्तिविपरिणामेनान्वयः। तदा, तत्पदेन । परामर्शः, ज्ञानम् । इदं चोपसर्जनस्यत्यनेन सम्बध्यते । तथाच बुद्ध्योपसर्जनं सन्निकृष्य तदोपसर्जनस्य परामर्श इत्यन्वयः । एतेन सन्निकृष्येत्यस्य कर्मानुपादानात्क्रिया- न्तरकर्तुरनुपादानाञ्च बुद्धया सन्निकृष्येत्यसङ्गतामिति परास्तम् ।

केचित्तु-प्रतिबिम्बरूपदुःखसम्बन्धस्यैव प्रतिकूलतया तत्यागस्यैव परमपुरुषार्थत्वेनेप्सितत्वाद् दुःखस्य हेयत्ववर्णनं तत्पद्स्य दुःखपरत्ववर्णनं चासङ्गतमित्याहुः ।

सम्बन्धित्यार्ग विना सम्बन्धत्यागायोगाद् 'दुःखं मे मा भूत्' इत्यादिना तस्यैव जिह्वासितत्वावगमात्, “हेयं दुःखमनागतं सर्वम्’ ‘दुःखजन्मप्रवृत्तिदोषप्रथ्याज्ञानानाम्-(न्या.अ.१पा.१ सू.२) “अथ त्रिविधदुःखात्यन्तनिवृत्तिरत्यन्तपुरुषार्थः” (सां. सू. अ. १ सू. १) “तरति शोकमात्मवित्'इत्यादिविरोधात् दुःखनिवृत्तिरेव मोक्ष इत्यपरे ।


१ यद्यपि सर्वेषु मूलपुस्तकेषु सन्निकृष्टस्येति पाठस्तथाऽपि टीकाऽनुरोधेन तं हित्वाऽयमत्रावस्थापितः ।