अपघातकश्च हेतुः शास्त्रप्रतिपाद्यो, नान्य इत्याशयः ॥
अत्र शङ्कते-“दृष्टे साऽपार्था चेत्’ इति । अयमर्थः -- अस्तु तर्हि सुःखत्रयम्, हजिहासितं च तद् भवतु, भवतु च तच्छक्यहानम्, सहतां च शास्त्रगम्य
भाष्यकारास्तु प्रतिबिम्बरूपो दुःखसम्वन्धो भोगाख्यस्तन्निवृत्तिरेवपुरुषार्थः । 'दुःखं मा भुञ्जीय'इत्यापामरं प्रार्थनादर्शनात् । दुःखनिवृत्तिस्तु न पुरुषार्थस्तस्या अन्यशेषत्वात् । नच पूर्वोक्तवचनविरोधः । कण्टकादिनिवृत्तिप्रतिपादकवद् दुःखनिवृत्तेस्तादर्थ्यप्रतिपादकत्वेन विरोधाभावात् । एवं सुखमपि न स्वतःपुरुषार्थो युक्तिसाम्यात् । ‘तस्मिन्निवृत्ते पुरुषः पुनरिदं तापत्रयं न भुङ्क्तये' इत्यादिना भाष्ये व्यासदेवैरपि दुःखभोगनिवृत्तरेवपुरुषार्थत्वकथ- नाच्चेत्याहुः । दुःखत्रयप्रहाणे तदभिघातप्रहाणं पारमार्थिकमित्यभिप्राय इत्यन्ये ।
तदुच्छेदोपायापरिज्ञानाच्छास्त्रविषयस्यातदुपायत्वाद्वेत्युक्तं दूरीकुर्वन् ‘तद्विपरीतः श्रेयान्’ इत्यादिवक्ष्यमाणतदपघातकहेतुं दर्शयति-अपघातकश्चेति । शास्त्रव्युत्पाद्यः-शास्त्रैगकम्यः, । व्यक्ताव्यक्तपुरुषसाक्षात्काररूप इत्यर्थः । ‘सुकरोपायान्तरस्य सद्भावाद्वा शास्त्रविषये न जिज्ञासा ’इति यदुक्तं तच्छङ्कापरतया 'दृष्टे साऽपार्था चेद्'इतिमूलं योजयति-तत्र शङ्कन इति । दृष्ट इत्यत्र सुकरोपाय इति शेषः । शास्त्रव्युत्पादकहेतुजिज्ञासा अपार्था अपगतोऽर्थः प्रयोजनं यस्याः सा अपार्था । व्यर्थेति यावत् । तथा च सुकरोपाय सति दुःसाध्योपाय जिज्ञासा न भवतीत्यर्थः । हेयाद्यभावे । सुकरोपायस्याप्यभावेन तत्र जिज्ञासैव प्रेक्षावतां न सम्भवतीति शङ्कापनुत्तये पूर्वोपपादितमर्थमनुवदति- आस्त्वित्यादिना । सहृताम्-समर्थो भूयात् । भवतु च