पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/७०

एतत् पृष्ठम् परिष्कृतम् अस्ति
३६
सटीकसाङ्ख्यतत्त्वकौमुद्याम् ।

प्रकाश एवात्मनो भोगः । अगृहीतासंसर्गकमुभयविषयकम् ‘अहं चेतना'इत्याद्याकारकं ज्ञानमविवेको वृत्तिरूपः प्रतिबिम्बात्मना पुरुषधर्मस्तत्प्रयुक्त एव पुरुषस्य तापः । तथाच स्वाभासविशिष्टबुद्विारा दुःखप्रतिबिम्बाश्रयत्वेनात्मानं प्रकाशयति । अयमेव पुरुषस्य बन्धः । 'बुद्धिगतदुःखप्रतिविम्बोऽयम्, अहं तु तदन्यः'इति बुद्धिगतविवेकोऽयम्, प्रतिबिम्बात्मना पुरुषधर्मस्तन्निवर्तक इति । पुरुषस्य भोक्तृत्वं निरूपकतासम्बन्धेन सुखाद्याकारबुद्धिगतप्रतिबिम्बाश्रय त्वमुक्तरूपं वा । प्रकृतिश्च नित्या सदा प्रसवस्वभावा स्वतन्त्रेति मुक्तपुरुषं प्रति सृष्टिद्वारा भोगापवर्गाय न प्रवर्त्तते । यथा-‘अमा त्यादयो राज्ञोऽर्थ सम्पाद्य कृतार्थाः सन्तो न पुनाराजार्थं प्रवर्त्तन्तेऽन्यार्थे तु प्रवर्तन्ते’ इति सिद्धान्तस्तस्य च निर्युक्तिक- त्वेनानेकजन्माभिरपि विदुषामनिर्णयात् । तथा हि-दुःखहेतो बुद्धिवृत्तिरूपाविवेकस्य प्रतिबिम्बरूपेण पुरुषे स्थितस्य सत्वपुरुषान्यता- ख्यातिरूपसाक्षात्कारनिवर्त्त्यत्वं यदुक्त्तं तन्न संभवति, वृत्त्यन्तरोत्पत्यादिनैव तद्वृत्तिनाशे तत्प्रतिबिम्बस्यापि नाशेन सहजत एव दुःखनिवृत्तिरूपमोक्षः स्यात् । नच विरोधिवृत्तिनाशे पुनस्तदुत्पादने न तदत्यन्तनिवृत्तिरूपमोक्षः स्यात् । नच विरोधिवृत्तिनाशे पुनस्तदुत्पादने न तदत्यन्तनिवृत्तिरिति वाच्यम् । साक्षात्काररूपवृत्तिनाशेऽपि पुनस्तदुत्पादसम्भवेन बन्धानिवृत्यापत्तेः समत्वात् । नचाविवेकरूपवृत्तिः साक्षात्कारपर्यन्तमेकैव वृत्य- न्तराणां तद्विरोधत्वाभावेन तन्नाशानभ्युपगमात्, तन्नाशोत्तर साक्षात्कारेण नष्टस्य पुनरुत्पादानभ्युपगमान्न क्षतिरिति वाच्यम् । पूर्वपरिणामतिरोधानं विनोत्तरपरिणामादर्शनात् । उपाधिसन्निधौ ज़्‘दर्पणस्थमुखाद्भीवास्थमुखं भिन्नम्’इति निश्चयेन प्रतिबिम्बनिवृत्तेरदर्शनाञ्च । नच स्वस्ववृत्याश्रयबुद्धेरव तिरोधा- नाभ्युपगमान्न दोषः । पुनरुत्पादसम्भवात् । अन्यथा' चलं गुणवृत्तम्'इति न्यायसिद्धस्य ‘सरूपविरूपपरिणामाभ्यां न कदाचेि-