पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/७१

एतत् पृष्ठम् परिष्कृतम् अस्ति
३७
शास्त्रविषयजिज्ञासाऽवतरणिका ।

तथा च लौकिकानामाभाणकः-

अक्के चेन्मधु विन्देत किमर्थं पर्दतं व्रजेत् ॥
इष्टस्यार्थस्य संसिद्धौ को विद्वान् यत्नमाचरेत्॥ इति॥

सन्ति चोपायाः शतशः शारीरदुःखप्रतीकारायेषत्करा भिषजां वरैरुपदिष्टाः । मानसस्यापि सन्तापस्य प्रतीकाराय मनोज्ञस्त्रीपानभोजनविलेपनवस्त्रालङ्कारादि- विषयसम्प्राप्तिरुपायः सुकरः । एवमाधिभौतिकस्यापि दुःखस्य नीतिशास्त्राभ्यासकुशलतानेिरत्ययस्थानाध्यासनादिः प्रतीकारहेतुरीषत्करः । तथाऽऽधिदैविकस्यापि मणिमन्त्रौषधाद्युपयोगः सुकरः प्रतीकादपि वियुज्यतेऽचेतनम्' इतिसिद्धान्तस्य भङ्गापत्तेः । न च ‘अमात्यवत् कृतार्था सती तं प्रति न वर्तते' इति युक्तमिति वाच्यम्। दृष्टान्तवैषम्यात् । व्यापकप्रधानस्य जायमानानां बुद्विद्वारा दुःखादिपरिणामानां व्यापके मुक्तपुरुषे प्रतिबिम्बनिरोधस्य कपिलेनापि कर्तुमशक्यत्वाच्च । योगमाहात्म्यादङ्गीकारे त्वन्यदपि स्यात्। इत्थं चैतदपेक्षया लौकिकोपायस्य सुकरत्वकथनमिति ।

लौकिकोऽप्ययं न भवतीति सूचनाय लौकिकीं सम्मतिमाह--तथाचेति । आभाणकः-अप्रसिद्धो वाक्यरूपः शब्दः । तदेव दर्शयति अक्के इति । अके गृहकोणे । मर्ध्र्वर्थीति शेषः । मधुपदमभिलाषितविषयपरम्, पर्वतपदमतिदुष्करोपायसाध्यपरम् । तदेव दर्शयति- इष्टस्येत्यादिना । इष्टस्याभिलषितस्य संसिद्धौ सम्प्राप्तौ । कचित्सम्प्राप्तावित्यैव पाठः । उपाया इत्युपदिष्टा इत्यत्रान्वेति । भिषजां वरैः-उत्कृष्टवैधैः । उत्कषश्चाध्यापनम्, दुर्गतादिभ्यः स्वभैषजदानादि च । निरत्ययस्थानं बाधनशून्य स्थलम् । अध्यासनादि उपवशनादि च । माणमन्त्रादात्यादिपदेनैौषधादि । उपयोगः-मण्यादेर्धारणम्, मन्त्रादेः पाठादि ।