पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/७२

एतत् पृष्ठम् परिष्कृतम् अस्ति
३८
सटीकसाङ्ख्यतत्त्वकौमुद्याम् ।

रोपाय इति ॥

निराकरोति-“न ?' इनि । कुतः ? । * एकान्तात्यन्ततोऽभावात्' । एकान्तो दुःखनिवृत्तेरवश्यम्भावः अत्यन्तो निवृत्तस्य दुःखस्य पुनरुत्पादः त्योरेकान्तात्यन्तयोरभाव एकान्तात्यन्ततोऽभावः। षष्ठीस्थाने सार्वविभक्त्तिकस्तसिः।

एतदुक्त भवति यथाविधि रसायनादिकामिनीनीतेि- शास्त्राभ्यासमन्त्रादुपयोगेऽपि तस्य तस्याध्यात्मिका-


विमतं मोक्षसाधनं न प्रेक्षावाज्जिज्ञास्यं तत्साधनान्तरापेक्षया बह्वायाससाध्यसाधनत्वात्सम्मतवदिति शङ्काऽभिप्रायः ।

दुःखनेिवृत्तिपदानुषङ्गेनार्य्यां योजयति-एकान्त इत्यादिना । निवृत्तस्य-निवृत्तजातीयस्य । तेन निवृत्तस्य यः पुनरनुत्पा- दस्तस्य संसारदशायामपि सत्त्वे न क्षतिः ।

ननु शास्त्रगम्योपायजिज्ञासा न व्यर्था एकान्तात्यन्तदुःख- निवृत्यभावादिति हेत्वसिद्धिनिरासाय दृष्ट इत्यनुषङ्गे तुल्यवि- त्तिवेद्यतया दृष्टोपायस्यात्यन्तिकदुःखनिवृत्तिसाधनत्वाभावपरतया मूलं योजयितुमाह--एतदुक्तं भवतीति । तथाच दृष्टोपायस्य तादृशेष्टसाधनत्वाभावाद्विशेषणासिद्धया उक्तहेत्वसिद्धिरिति भावः ।

प्रयोगस्तु विमतमिष्टसाधनं न प्रेक्षावज्जिज्ञास्यमुक्त्तेष्टसाध- नत्वाभावात्संमतवदिति । प्रयोगान्तरं च स्वयमूह्यम् ।

रसायनमणिमन्त्रादयो नात्यन्तद्ःखनिवृत्तिहेतवः मुक्त्तिहेतुतया वेदानुक्तत्वात्सम्मतवव्द्यतिरेके तत्त्वज्ञानवदित्यन्ये ।

यथाविधीति तु मन्त्रान्तेषु सम्बध्यते । ननु दुःखस्य निमृत्ते- रदर्शनेनैकान्तिकदुःखनिवृत्तिसाधनत्वाभावसाधनेऽसिद्धोऽयं हेतु- र्दुःखनिवृत्तेर्दशनादित्याशङ्क्या तस्य तस्येति । तथाकचिन्निवृते-