करणत्वं दुःखविशेषणतयोपात्तम् । उपान्त्यदुःखध्वंसस्यापि ता- दृशचरमदुःखसमानकालीनतया न तत्रातिव्याप्तिः । नच सुषुप्तिदशायां दुःखाभावे दुःखध्वंसे तादृशदुःखसमानकालीनत्वाभावादतिव्याप्तिरिति वाच्यम् । तादृशदुःखासमानकालीनत्वस्य तादृशदुःखसमानकालीन- भिन्नत्वरूपतया सुषुप्तिकालीनदुःखध्वंसस्य सुषुप्त्युत्तरतादृशदुःख- समानकालीनतया तदवच्छिन्नभिन्नत्वाभावात् । अत्यन्ता- भावस्याव्याप्यवृत्तित्वेऽप्यन्योन्याभावस्य व्याप्यवृत्तित्वात् । नच तथाऽपि स्वत्वस्याननुगमन लक्षणाननुगम इति वाच्यम् । स्वसामानाधिकरण्यकालिकाविशेषणतोभयसम्बन्धेन दुःखवान् यस्तद्भिन्नदुःखध्वंसस्य मोक्षरूपतयाऽननुगमाभावात् । सम्बन्धमध्ये स्वत्वस्य परिचायकतया निवेशेन सम्बन्धाननुगमस्यादोषत्वादिति ।
एतेन् दुःखध्वंसो मोक्ष इत्यत्र दुःखप्रतियोगिताको वा दुःखत्वावच्छिन्नप्रतियोगिताको वा तत्तत्परुषीयदुःखत्वावच्छि नमप्रतियोगिताको वा ध्वंसः ? । नाद्यः । संसारदशायामपि सत्वात् । न द्वितीयः । ध्वंसस्य प्रतियोगिजन्यतया यावद्- दुःखानां युगपदसम्भवेनामम्भवात् । अत एव न तृतीयः । तत्तत्पुरुषीययावद्दुःखध्वंसोऽपि न, यावत्वस्य दुःखविशेषणत्वे पूर्वोक्तदोषानिवृत्तेः । ध्वंसविशेषणत्वे यावत्त्वस्यानिर्णयेन मोक्षस्यानिर्णयापत्तेरननुगमाच्चेतेि परास्तम् ।
अत्र वेदान्तिनस्तु दुःखध्वंसो न मोक्षस्तस्यापुरुषार्थत्वात् । न च हेत्वसिद्धिः । 'दुःखं मे मा भूद्' इति कामनाया दुःखानु- त्पादाविषयत्वेन दुःखध्वंसे पृथकामनाऽदर्शनात् । भूतभाविदुः खध्वंसे वर्तमानतत्त्वज्ञानस्य कारणत्वासम्भवेन स्वसमाना- धिकरणस्वसमानकालीनदुःखध्वसम्प्रत्येव हेतुता वक्तव्या, तथा च ‘उत्पन्न दुःखं मे मा भूद'इत्यादिस्वविषयकज्ञानादिनाश्यतया तत्र