पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/८४

एतत् पृष्ठम् परिष्कृतम् अस्ति
५०
सटीकसाङ्ख्यतत्वकौमुद्यम्

यते’ इति । तत्र भव आनुश्रविकः । तत्र प्राप्तो ज्ञात इति यावत् । आनुश्रविकोऽपि कर्मकलापो दृष्टेन तुल्य वर्तते, ऐकान्तिकात्यन्तिकदुःखप्रतीकारानुपायत्वयो भयत्रापि तुल्यत्वात् ।

 यद्यपि च “आनुश्रविकः" इति सामान्याभिधानम्, तथाऽपि कर्मकलाषाभिप्रायं द्रष्टव्यम्, विवेकज्ञानस्या प्यानुश्रविकत्वात् । तथा च भूयते-"आत्मा वाऽरे

 नचैवं पौरूषेयाणां भारतादीनामपि वेदाविशेषापत्तिरिति वाच्यम् । आनुपूर्वीविशेषेण विशेषात् । नच आनुपूर्वीविशेषस्य पु रुषाधीनतया पौरुषेयस्वापत्तिरिति वाच्यम् । सजातीयोचारणानपे क्षचरणाविषयत्वरूपपौरुषेयत्वाभावात् । सगद्यकाले ईश्वरः पू - वेसगसिद्धानुपूर्वकं वेदं ज्ञात्वा तथैव।चख्यौ, नतु विजाती यानुपूर्वकम् । तादृशधेदाध्ययनस्यैवाभ्युदयनिःश्रेयसहेतुत्वात् । अन्यथा तस्य वाग्वज्ञतया ऽनर्थहेतुत्वापत्तेरिति । महाभारतादौ च सजातीयोच्चारणानपेक्षोच्चारणविषयत्वमापौरुषेयवापत्तिरिति ।

 औपनिषदस्तु-षभिश्चित्रैरद्वितीये ब्रह्मणि तात्पर्यानुरो धादेकविज्ञानेन सर्वविज्ञानानुपपत्तेश्च वाचेत्यादिश्रुतिस्मृतीनामर्थ वादत्वं प्रवाहरूपनित्यत्वं वा ऽभ्युपेयमित्याहुः ।

 चेद अर्थस्य प्राप्तेरभावदाह ज्ञानइति । सधारणधमें द भैयति ऐकान्तिकेत्यादि । ऐकान्तिकात्यन्तिकदुःखनिवृत्यनु पायत्वसाधकसह्याविथीत्यादिवक्ष्यमाणहेतोः पद्भकदश ऽसि द्धिवारणायैतद्विपरीतइतिग्रन्थासङ्गतिनिरासाय च सामान्यपद स्य विशेषपरत्वमाह यद्यपीत्यादिना । ननु विवेकज्ञान स्य लोकत एवाविवेकनिवृत्तिद्वारा दुःखनिवृत्तिहेतुत्वं सिद्ध मित्याशङ्क्याह तथाचभूयत इति । तथा चोक्तदुःखनि वृत्तिहेतुत्वं न लोकतः सिद्धमिति भावः । आस्फा ज्ञातव्यः”