पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/८५

एतत् पृष्ठम् परिष्कृतम् अस्ति
५१
शास्त्रविषयजिज्ञासाऽवतरणिका

ज्ञातव्यः प्रकृतितो विवेक्तव्यः”(बृहदारण्यक २।४।५), 'न स पुनरावर्तते न स पुनरावर्तते” ( छान्दो ग्य ८ १५ ) इति ॥

 अस्यां प्रतिज्ञायां हेतुमाह-"स विशुद्धिक्षया तिशययुक्तः' ” इति । ‘अविशुद्धिः ” समादियागस्य पशुबीजविधसाधनता । यथा ऽऽह स्म भगवन् पञ्चशिखाचार्यः—‘स्वल्पसङ्करः सपारहरः सप्रत्यवम र्षः ’ इति । ‘स्वल्पसङ्करः ज्योतिष्टामादिजन्मनः प्र. धानपूर्वस्य स्वल्पंन पशुहिंसादिजन्मना ऽनर्थहेतुना sपूर्वेण सङ्करः । ‘सपारिहरः’ कियता Sपि प्रायश्चि इतिन्यायप्राप्तमनूद्य विवेकमेव विदधति श्रुतिः –‘प्रकृतितो विवे क्तव्यः” इति, अन्यथा पौनरुक्तयापत्तेः, वयंभेदापत्तेश्च ।अस्याम् दृष्टवदनुश्रविक इतेि प्रतिज्ञयाम् । अनुश्रविकः कर्मकळप ऐका न्तिकात्यन्तिकदुःखनिवृत्यनुपाय इत्यात्मिकायामित्यर्थः । सः आनुश्रविक कर्मकलापः । ग्रन्थकर्तुरस्मिन्नर्थे भ्रमादिनिरासाय सम्मतिमाह यथहमेति। मिश्रणरूपसांकय्येस्य सम्बन्धिनि रूपणाधीनत्वात्स्वसंकर इत्यस्यार्थमाह स्वल्पः सङ्कर इत्या देना। स्वल्पः प्रधानफलाधिकरणकालापेक्षया ऽल्पकालावच्छि अफलजनकः, सङ्करः प्रधानपूर्वस्य पशुहिंसादिजन्यापूर्वेणान र्थहेतुना मिश्रणम् । तेन प्रधानफलाधिकरणसमयवृत्तिदुःखफ लोत्पादकत्वं पशुहिंसाजन्यापूर्वस्येति खचितम् । प्रधानापूर्वस्य . सांकर्याभिधानं तु प्रायश्चित्तपरिहार्यताया यागहिंसासु सम्भवादिति।

 ननु तस्य फछनइयवे प्रायश्चित्तचैयर्पमित्याशङ्क्याह सपरिहार इति । सः(१) पक्षादिवधजन्यापूर्वेण सम्बन्धः

 (१ ) एतट्टकऽनुरोधी मूलपाठः ‘शक्यो हि स कियताऽपि प्राय श्चित्तेन परिहर्तुम्’ इति उपलभ्यते । तथापि केवलमूलपुस्तकेषु अन्या