तेन परिहर्तुं शक्यः । अथ च प्रमादतः प्रायश्चित्तमपि नाचरितं प्रधानकर्मविपाकसमये स पच्यते । (१)तथा
सङ्कराख्यः। परिहारार्थमाह शक्योहीति । कियता-अल्पेन । प्रायश्चित्तेन प्रायश्चित्तादिना । आदिपदेन फलादिकं ग्राह्यम् । अत्र सङ्करनाशस्तु तत्सम्बन्ध्यनर्थहेतुनाशाद । फलेन नाशस्थः ठे तूभयसम्बन्धिनाशादित्यवधेयम् ।
केचिलु परिहारेण गायश्चित्तेन सह बत्तते इति सपरि दर इत्याहुः ।
तन्न । ‘परिहर्तुं शक्यइति ग्रन्थविरोधात् । साहित्यस्य स मंभिव्याहृतक्रियान्वयिन एककलीनत्वस्य फलनाश्यसङ्ग्रावस्था नक्रियायामसम्भवान् ।
नन्ववश्यानुष्ठेयप्रायश्चित्तेन तमाशे कथं तेन सकथ्यमित्य शाह अथेति ! प्रायश्चित्तमपीत्यपिना प्रायश्चित्तानुष्ठानं स मुच्चीयते । तथाच कृते ऽपि प्रायश्चित्ते तत्रापि बीजादिवधसम्भवेन तत्रापि सांकर्यं दुष्परिहरामिति भावः।।
एतेन मेक्षावतां प्रमादळस्यद्यसम्भवेन साह्यसम्भव झतं परास्तम् । प्रधान कर्मविपाकसमग्रइति । विपचते इति विपाकः फलम् । तथाच प्रधानापूज्रधफलसमये इत्यर्थः । पच्यते इति । अत्र स इत्यनुवर्तनीयम् । कचिस पचते इति पाठः स स्पष्ट एव । तथाच तत्कालावच्छिनफलोपधायकः स इत्यर्थः । सथाच तत्सहकृतप्रधानपूर्वेण स्वर्षदुःखविशिष्टमेव सुखं जन्यत इति भावार्थः । कचित्पच्यते इतिपाठःतत्रापूर्वेणेत्यनुवर्तनीयम् ॥
ननु एवं सति विषसंस्कृतानवत्कुशलानां प्रधानयागे प्रवृ चिर्न स्यादित्याशङ्काह तथापीति । यद्यप्यनर्थं प्रखते तथापि श्वश एवोपलब्धस्वच मूलेऽवस्थापितः । (१) पचते इति पाठः कु.