पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/९३

एतत् पृष्ठम् परिष्कृतम् अस्ति
५९
शास्त्रविषयजिज्ञासाऽवत्तरणका ।



५ ) तथा “ कर्मणा मृत्युमृषयो निषेदुः प्रजावन्तो द्र- विणमीहमानाः । तथा परे ऋषयो ये मनीषिणः परं कमेभ्योऽमृतत्वमानशु ” इति च ।

 तदेतत् सर्वमभिप्रेत्याह—“'तद्विपरीतः श्रेयान्. व्यक्ताव्यक्तज्ञविज्ञानात्” इति । तस्मात् ( आनु- श्रविकाद् दुःखापघातकोपायात् सोमपानादेराविशुद्धाद्- अनित्यसातिशयफलात् ) विपरीतः विशुद्ध: हिं- सादिसङ्करभावात्, नित्यनिरतिशयफल’, असकृत् पुनरावृत्तिश्रुतेः । न च कर्यत्वेनानित्यत फलस्य-



वेदनिहितं गुहायाम्” इति । विशन्तीति । ज्ञत्वेति शेषः। नन्वेवं धनार्जनकर्मादेः कुञ्जरशौचवद् दुःखनिवर्तकत्वे कथं तत्र प्रवृत्तिरि- त्याशङ्कोत्तरत्वेन श्रुत्यन्तरमुदाहरति तथाकर्मणेति । यथा दुः- खविवेककुशलाः कर्मभ्यः परं साक्षात्कर्मासाध्यममृतत्वमानशुः, तथा तदपरेऽकुशल अत एव प्रजावन्तः त्यागमकुर्वन्तः, अत एव द्रवणमीहमानाः, अत एव कर्मासक्ताः, अतएव कर्मणा जन्ममरणप्र- वाहरूपं मृत्यु निषेदुः प्रापुरित्यर्थः । तथाच कुञ्जरादेरिव मन्दम- तीनामापातदुःखनिवर्तकेSपि प्रवृत्तिस्सम्भवतीति भावः॥

नित्यनिरतिशयोति ।। नित्यमक्षथि निरतिशयं स्वसमानाधिक- रणस्वसमानकालीनसुखदुःखादिसम्बद्धं यद्यत् तत्भिन्नम्, नित्यं च निरतिशयं यत्तत्तथा । सत्वपुरुषान्यताख्यातिरूपसाधनस्यैकरू- पत्वात्तत्फलाया मुक्तेर्नित्यनिरतिशयत्वेऽपि जन्यत्वेनानिय- त्वानुमानमसकृदपुनरावृत्तिश्रुतिबाधितमित्याह असकृदिति । असकृत् पुनःपुनः, अनवृत्तिश्रुतेरवृत्यापादकश्रुतेः । अभ्य- स्तानानृत्त्यापादकश्रुतेरित्यर्थः । ‘'एष देवपथो ब्रह्मपथ एतेन प्र- तिपद्यमाना इमं मानवमावर्तं नावर्तन्ते नावर्तन्ते” ( छा० अ० ४- खं० १५ मं० ६ ) “तयोर्द्धमायन्नमृतत्वमेति सखल्वेवं वर्त्त-