पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/९८

एतत् पृष्ठम् परिष्कृतम् अस्ति
६४
सटीकसाङ्ख्यतत्व कौमिद्याम्।



युक्ता, भावरूपस्य कार्यस्य तथाभावात्, दुःखप्रध्वं- सनस्य तु कार्यस्यापि तद्वैपरीत्यात् । न च दुःखान्त- रोत्पादःकारणाप्रवृत्तौ कार्यस्यानुत्पादात् विवेकज्ञा- नोपजननपर्यन्तत्वाञ्च कारणप्रवृत्तेः । एतच्चोपरिष्टादु- पपादयिष्यते ॥

तप इत्युपासते तेऽर्चिषमभि संभवति " इति श्रुत्या पञ्चाग्नि विद्यावतां ग्रहस्थानां मरणोपळक्षितवैखानसानां परिव्राजकानां नैष्ठिकब्रह्मचारिणां च ब्रह्मोपासनहीनानां ब्राह्मलोकगमनं प्रतिपादयन्त्यैकवाक्यतया तेषां न्यायसिद्धपुनरावृत्तेर्गमनाति- रिक्तकल्पधिकरणत्वकल्पनेऽपि तन्मात्रे तात्पर्याकस्पनात् ॥ नच तत्र गतानां सर्वेषां श्रवणादिद्वारा साक्षात्कारः कुतो न संभवतीति वाच्यम् । भोगासक्तत्वेन श्रवणाद्यसंभवात्तत्सं- भवेऽपि भोगविग्रहतया साक्षात्कारासंभवात् ।

 केचित्तु असकृच पुनः पुनः परिषत्सु अनावृत्तिश्रवणा- दित्याहुः ।

 उत्पनव्यक्तेः पुनरुत्पादसंभवादाहान्तरोते । कारणाप्रवृत्तिरेव कथमत आह विवेकेति । ननु विवेकज्ञानोत्तरमपि कुतो न प्रवर्तते- ऽत आह-एतच्चोपरिष्टादिति । “‘औत्सुक्यनिवृत्त्यर्थं यथा क्रियासु प्रवत्तंते लोकः" इत्यारभ्य ‘प्रकृतेः सुकुमारतरं न किंचि- दस्तीति मे मतिर्भवति । या दृष्टास्मीति पुनर्न दर्श- नमुपैति पुरुषस्य” इत्यन्तग्रन्थे । उपरिष्टात्–विवेकख्या- तिपर्यन्तं याति प्रकृतिचेष्टितमित्यत्रेति केचित् तन्न यदाहु- रित्यादिपरकीयवचनमात्रोपन्यासेऽपि व्युत्पादनाभावात् । तत्तात्पर्यार्थमुक्त्वा तद्विपरीत इत्यस्याक्षरतत्तदपकृष्टार्थोऽपि संभवत्यतस्तन्निरासाय व्यक्तेत्याद्यग्रिमानुरोधेनाक्षरतो विशेषप-