पृष्ठम्:सात्वततन्त्रम्.djvu/२४

एतत् पृष्ठम् परिष्कृतम् अस्ति
सात्वततन्त्रे-

ब्रह्मेति यद्विदु वज्ञा भगवानिति सात्वताः ।
तदासन्तामिवात्मानं मत्वा दृश्य विना विभुः ॥१०॥
द्विप्रकारमभूत्सत्यं सत्ताभूत्वा स्वयं स्वयम् ।
तच्चिच्छक्तिस्वरूपेण प्रकृतिः पुरुषो महान् ॥११॥
सर्वलोकैकनिलयो भगवानिति शब्दयते ।
तस्यैव शक्तिः प्रकृतिः कार्यकारणरूपिणी ॥ १२ ॥
गुणत्रयस्वरूपेण या स्वयं भिद्यते पुनः ।
यः कालस्तं वदन्त्येके हरेश्चेष्टां दुरन्वयाम् ॥ १३ ॥
यस्माद्गुणत्रयक्षोभात्पृथग्भूतोऽभवत्पुरा ।
जीवस्य यस्माद्भवति शुभाशुभफलग्रहः ॥ १४ ॥
तत्कर्म महतो जन्महेतुरव्यक्तमूर्तिमत् ।
भावानां परिणामो हि यतो भवति सर्वदा ॥ १५ ॥
तमेवाहुर्वेदविदः सूक्ष्मरूपं स्वभावकम् ।
उक्तोऽयं पुरुषः साक्षादीश्वरो भगवत्तनुः ॥ १६ ॥
कालकर्मस्वभावस्थः प्रकृतिं प्रति नोदितः ।
पुरुषाधिष्ठिता देवी प्रकृतिर्गुणसङ्ग्रहा ॥ १७ ॥
महत्तत्वमभूत्तत्तत्परिज्ञानक्रियात्मकम् ।
तस्माज्जातो ह्यहङ्कारस्त्रिविधो दैवनोदितात् ॥ १८ ॥
वैकारिकस्तैजसश्च तामसश्चेति यं विदुः ।
वैकारिकाम्मनोदेवा जाता ज्ञानक्रियाधिपाः ॥१९॥
मरुत्केशौ दिशः सूर्यो नासत्यो ज्ञाननोदकाः ।
वह्वीन्द्र मित्रकोपेता एते कर्मापनोदकाः॥ २० ॥
राजसाद्विषयग्रा हज्ञानकर्मस्वरूपिणः ।
त्वग्रसज्ञा श्रुतिश्चक्षुर्घ्राणं बुद्धिश्च तन्मयाः ॥ २२ ॥
वाक्पाणिपायूपस्थाश्च गतिश्चेति क्रियात्मकाः ।
तामसात्पञ्चभूतानि तन्मात्राणि च भागशः ॥ २२ ॥