प्रथमं तामसाज्जज्ञे शब्दस्तस्मादभून्नभः ।
शब्दरूपात्तु नभसः स्पर्शस्तस्मादभून्मरुत् ।। २३ ॥
मरुतोऽभूत्ततस्तेजस्तेजसो रूपमुत्तमम् ।
रूपमात्राद्रसो जज्ञे तस्मादापोऽभवन् शुचीः ॥ २४ ।।
अद्भयो जातो गन्धगुणो गन्धाद्भूमिरजायत ।
महत्तत्वमहङ्कारः सशब्द स्पर्शतेजसः ॥ २६ ॥
रसगन्धाविमे सर्वे स्मृता प्रकृतिविक्रयाः ।
शब्दस्य प्रकृतेरेव संदृश्यन्ते यतो बुधैः ॥ २६ ॥
अतोऽभवन् प्रकृतयो चिकारान् विकृतीर्विदुः ।
आकाशे शब्दमात्रं स्याद्वायो स्पर्शः सशब्दकः ॥२७॥
रूपं तेजसि शब्दश्च स्पर्शश्चैव जले तथा ।
- रसशब्दस्पर्शरूपं पृथिव्यां सर्वमेव हि ॥ २८ ॥
कारणानां यतः कार्यें समन्वयविधिस्ततः ।
दृश्यते त्वधिकस्तत्र गुणो यावति कश्चह ॥ २९ ॥
महदादीनि तत्वानि पुरुषस्य महात्मनः ।
कार्यावताररूपाणि जानीहि द्विजसत्तम ॥ ३०॥
सर्वाण्यतानि सङ्गृह्य पुरुषस्येच्छया यदा ।
अंशैरुत्पादयामासुर्विराज भुवनात्मकम् ॥ ३१ ॥
तस्य चान्तर्गतं छिद्रं पञ्चाशत्कोटिविस्तृतम् ।
दशोत्तराधिकैरेतैः सप्तभिर्बहिरावृतम् ॥ ३२ ॥
तमाहुः पुरुषस्यैव गेहं यत्राविशत्स्वयम् ।
यतोऽचेतनमेवासीत्केवलं सर्वविस्तरम् ॥ ३३ ॥
नरादुत्पन्नतत्वानां सङ्घहे नारसंज्ञके ।
अयनं तस्य यदभूत्तस्मान्नारायणः स्मृतः ॥ ३४ ॥
विराड्देहे यदवसद्भगवान्पुरसंज्ञके ।
अतः पुरुषनामानमवाप पुरुषः परः ॥ ३५ ॥