यदा स भगवान्देवो मूलप्रकृतिविस्तरः ।
नारायणेन रूपेण विरजमविशत्स्वयम् ॥ ३६ ॥
तदा चेतनमापाद्य चिराद्विग्रह उत्थितः ।
समष्टिशब्दतावाच्यो द्विसप्तभुवनाश्रयः ॥ ३७ ।।
। यस्मिन् चराचरं भूतं स्रष्टा ब्रह्माहरेस्तनूः ।
तत्र लोकमयं यावत् विराज विदो विदुः ।। ३८ ।।
तस्याभिमानिनं जीवं वैराजं पुरुषाभिधम् ।।
। तदन्तर्यामिणं देवं नारायणमनामयम् ॥ ३९ ॥
सर्वजीवैकनिलयं भगवन्तं प्रचक्षते ।
अवतारसहस्राणां निधानं बीजमव्ययम् ॥ ४० ॥
यस्यांशेन रजोयुक्तः सृष्टौ ब्रह्मा व्यजायत ।
विष्णुः सत्त्वगुणाधीशः स्थितौ स्थापयितुं जगत् ॥४२
तमसा रुद्ररूपोऽभूत्प्रतिसञ्चरणो विभुः।
एते विष्णोर्गुणमया अवताराः क्रियाकृताः ॥ ४२ ।।
एषामंशावतारान्मे निवोध गदतो मम ।
ब्रह्मणोंऽशेन समभून्मरीचिरत्रिरङ्गिराः ॥ ४३ ॥
पुलस्त्यः पुलहश्चैव ऋतुर्दक्षो द्विजोत्तम ।
। भृगुर्वसिष्ठोऽथर्वा च कर्दमाद्याः प्रजेश्वराः ॥ ४४ ।।
एषां पुत्राश्च पौत्राश्च प्रपौत्राश्च महौजसः ।
सृष्ट्यर्थमुद्गताः सर्वे भगवद्वीर्यसंयुताः ॥ ४५ ॥
विष्णोरंशेन समभूद्धर्मों यज्ञो बृहत्रिवृत् ।
स्वायम्भुवाद्या मनवो द्विसप्ता लोकविश्रुताः ॥ ४६ ॥
एषां पुत्राश्च पौत्राश्च तथेन्द्राद्याश्च देवताः ।
विष्ण्वंशयुक्ता लोकानां पालकाः कथिता मया ॥४७॥
रुद्रस्यांशेन शतशो जाता रुद्रगणाः पृथक् ।
सर्पाश्च शतशो जाता ये च हिंस्राः स्वभावतः ॥४८॥