पृष्ठम्:सात्वततन्त्रम्.djvu/२९

एतत् पृष्ठम् परिष्कृतम् अस्ति
द्वितीयः पटलः।


योगेश्वरोऽत्रितनयो भगवाननन्तो
दत्ताख्य आस समताववदत्स्वचर्याम् ।
प्रह्लाद हैहययदुष्वपररा(२)यणेषु
शिष्येषु शिक्षितकथां कथयन गुरुभ्यः ॥११॥
नारायणो नर ऋषिप्रवरावभूतां
धर्मस्य दक्षदुहितयधिमूर्तिपत्न्याम् ।
धीरोपकारकरुणाशयकायशुद्धं
तीव्रं तपः प्रचरतां सुरराजतापम् ॥ १२ ॥
नाभेरभूदृषभसंज्ञसदाप्तकामो
योगेश्वरः सुतशतैरवदत्मजाभ्यः ।
धर्मे ततः परमयोगिजनावचर्यो
नैष्कर्म्यलक्षणपरां स्वयमाचचार ॥ १३ ॥
धात्रन्तिके सुसनकादिभिरीर्यमाणे
चेतोगुणान् विगलितुं भगवान्स हंसः ।
प्रोवाच तत्वममलं सदयार्द्रचित्ता
यस्माद्गुणागुणविभागमभून्मुनीनाम् ॥ १४ ॥
वेने मृते द्विजजनैरनु बाहुयुग्मं
सम्मथ्यमानसमये पृथुरूप आसीत् ।
लोकक्षुधां प्रशमयन् पृथिवीं दुदोह
सर्वाणि भृतिकरणानि च सर्वभूत्यै ॥ १५ ॥
दक्षस्य यज्ञविहिते शिवशक्तिहेतोः
प्राप्ताज्यभाममधिकं भृगुणाभिदत्तम् ।
तत्राष्टबाहुरभवद्भगवान् भवाय
प्राप्ता नुतिः सुरनरादिकृतापि तेन ॥ १६ ॥
जातः प्रियव्रतकुले गय इत्युदार-
कीर्तिं ततान भगवान् तनुवाङ्मनोभिः ।


(१) अपरायणेषु-अनन्याश्रितेषु इत्यर्थः ।