जाता पराशरसकाशत आदिदेवो
वेदान्समाहिततया विभजिष्यति स्म ॥ ४६ ॥
वृष्णः कुले तु भगवान् बलदेवनामा
यस्माबलानतिबलानदलत्सुरारीन् ।
यल्लाङ्गलाग्रकलनात् कुरुराजधानी EिmA
धानेव(१) धामसहिता(२) चलितातिभीता ॥४७॥
भूमेर्जनस्य निजपादपरायणस्य
(३)वृष्णेरजोऽपि भगवान् सुखपादधानः ।
जातो भविष्यति यशो विपुलं प्रकर्तुं
श्रीकृष्ण इत्यभिहितोऽखिलशक्तिपूर्णः ॥ ४८ ।।
जातो निजेन वपुषा वसुदेवगेहे
गत्वा तु गोकुळमथो विहरन् विनोदैः।
बालाकृतिर्विशदबालकभाषहासै-
र्गोगोपगोपवनितामुदमाशु कर्ता ॥ ४९ ॥
कंसानुशिष्टसुरशत्रुगणानुलुकी(४).
मुख्यान् हनिष्यति व्रजस्थितये महाद्रिम् ।
घृत्वोच्छिकीन्ध्रमिव सप्त दिनानि वाम-
हस्ते प्रगृह्य सुरनाथमदं प्रमार्ष्टा ॥ ५० ॥
धात्रा यदा सपशुगोपशिशौ प्रणीते
बुद्धेर्भ्रमो हलभृतोऽभवदप्रमेयः ।।
तत्संहरन् सपशुपालकुलस्वरूपं
कृत्वा विधिं विविधमोहमल!त्स धर्ता(५) ॥ ५१ ॥
(१) भृष्टयववत् इत्यर्थः । “अक्षतास्तु यवाः प्रोक्ता भृष्टा धाना
भवन्ति ते" इत्युक्तेः।
(२) गृहसहितेत्यर्थः । "धामरश्मौगृहे" इतिकोशात् ।
(३) अस्य जात इत्युत्तरार्धगतेनान्वयः। वृष्णिकुलाज्जात इत्यर्थः ।
(४) उलूकीमुख्यान्-पृतनाप्रभृतीन् । (५) धर्ता-उद्धरिभ्यतीत्यर्थः।