पृष्ठम्:सात्वततन्त्रम्.djvu/४५

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३
चतुर्थः पटलः ।


श्रीशिव उवाच ।

साधु पृष्टं त्वया साधो परं गुह्यतमं यतः ।
अन्यस्मै न मया प्रोक्तं विना भागवतान्नरात् ॥ ४ ॥
यदैवावोचं मां कृष्णो ध्यानात्तुष्टमना विभुः ।
तदैवाहं निषिद्धाऽस्मि अभक्तोक्तौ कृपालुना ॥५॥
तदा चाहं तस्य पादपङ्कजे शिरसा नतः ।
ब(१)भाष एतद्भगवान् भक्तानिर्देष्टुमर्हसि ॥ ६॥
तदा प्रीतमना देवो मामुवाच सतां गतिः ।
शृणुष्व शिव भद्रं ते भक्तान वक्ष्यामि सात्वतान् ॥ ७ ॥
मद्ध्याननिष्ठान्मत्प्राणान्मधशः श्रवणोत्सुकान् ।
भक्तान् जानीहि मे देव सर्वलोकप्रणामकान् ॥८॥
तेभ्यः परमसन्तुष्टो भक्तिभेदं ससाधनम् ।
ब्रवीमि शिव ते भक्तिस्तेनैव सम्प्रसिद्ध्यति ॥ ९ ॥
यदि त्वद्वाक्यनिष्ठः स्याद्योऽपि कोऽपि सदाशिव ।
तस्मै प्रीतमना वाच्यो भक्तिभेदः ससाधनः ॥ १० ॥
तदिदं ते प्रवक्ष्यामि भक्तिभेदं ससाधनम् ।
यतो भागवतश्रेष्ठो भगवत्कीर्तनप्रियः ॥११॥
एकैव भक्तिः श्रीविष्णोः प्रीतिरित्त्युच्यते बुधैः ।
निर्गुणत्वादखण्डत्वादानन्दत्वाद्विजोत्तम ॥ १२ ॥
किन्तु ज्ञानक्रियालीलाभेदैः सा त्रिविधा मता।
तान् शृणुष्वानुपूर्व्येण मत्तः स्वावहितो द्विज ॥ १३ ॥
सर्वान्तर्यामिणि हरौ मनोगतिरविच्युता।
सा निर्गुणज्ञानमयी साक्षादपि गरीयसी ॥ १४ ॥
सर्वोन्द्रयाणां सर्वेशे विष्णौ गतिरनुत्तमा ।
स्वाभाविकी भागवती कर्मजा मुक्तिहेलिनी ॥ १५ ॥


(१) अहमेतदूरभाषे इत्यन्वयः । बभाषे इत्युत्तमपुरुषैकवचनम् ।