मनसा भगवद्रूपचिन्तनं शिरसोरसा ।
बाहुपादादिभिर्विष्णोर्वन्दनं परया मुदा ॥ २८ ॥
अर्थादीनामानयनमीश्वरार्थेन सर्वशः ।
एतैः स्वसाधनैर्नित्यं भगवत्पादसेवनम् ॥ २९ ॥
आशुसम्पद्यते भक्तिः कृष्णे भागवती सती ।
यदेन्द्रियाणां सर्वेषां कृष्णे परमपूरुषे ॥ ३० ॥
स्वाभाविकी रतिरभूत्सा वै भागवती मता ।
एतद्भक्तिपरो विप्र चातुर्वग्यं न मन्यते ॥ ३१ ॥
तस्यामन्तः सर्वसुखमधिकं वापि लभ्यते ।
अथ प्रेममयीभक्तेः कारणं द्विजसत्तम ॥ ३२ ॥
शृणु विश्वासमापन्नो निश्चयात्मिकया धिया ।
सद्गुरोरुपदेशेन लब्ध्वा सत्सङ्गमादृतः ॥ ३३ ॥
चतुर्विधानां श्रीविष्णोः कर्मणां श्रवणं सताम् ।
तेष्वेवं कीर्तनं तेषां मनसा चापि चिन्तनम् ॥ ३४ ॥
वचसा ग्रहणं तेषां तत्पराणां प्रशंसनम् ।
यद्यशक्तो भवेत्कीर्तौ स्मरणे चापि सर्वशः ॥ ३५ ॥
तदा तु भगवन्नाम्नामावृत्तौ (तिं) वृत्त ( वर ) येत्सदा ।
सदा शश्वत्पीतियुक्तो यः कुर्यादेतदन्वहम् ॥ १६ ॥
तस्याशु भक्तिः श्रीकृष्णे जायते सद्भिरादृता।
एवं प्रेममयीं लब्ध्वा भित्वा संसारमात्मनः ॥ ३७ ॥
आशु सम्पद्यते शान्तिं परमानन्ददायिनीम् ।
लब्ध्वापि भक्ता भगवद्रूपशीलगुणक्रियाः ॥ ३८॥
नानुसन्धत्त एता वै विना भक्तिं जनार्दने ।
यद्यन्यसाधनान्यन्यभक्तौ कुर्यादतन्त्रितः ॥ ३९ ॥
न तत्र कश्चिदोषः स्याद्धरिसेवा यतः कृता ।
किन्तु यद्भक्तिनिष्ठा स्यात्तामेवाप्नोति मानवः ॥ १० ॥
४सा०