पृष्ठम्:सात्वततन्त्रम्.djvu/५६

एतत् पृष्ठम् परिष्कृतम् अस्ति
३४
सात्वततन्त्रे-


तस्मात्कलौ परो धर्मो हरिकीर्तेः सुकीर्तनम् ।
यतः कलि प्रशसन्ति शिष्टास्त्रियुगवर्तिनः ॥ ४५ ॥
यत्र कीर्तनमात्रेण प्राप्नोति परमं पदम् ।
कृतादावपि ये जीवा न मुक्ता निजधर्मतः ॥ ४६॥
तेऽपि मुक्ति प्रयास्यन्ति कलौ कीर्तनमात्रतः ।
कलेर्दोषसमुद्रस्य गुण एको महान् यतः ॥ ४७ ।।
नाम्नां सङ्कीर्तनेनैव चातुर्वर्ग जनोऽश्नुते ।
कृतादिष्वपि विप्रेन्द्र हरिनामानुकीर्तनम् ॥ ४८ ॥
तपादिसाध्यं तद्भूयः कलावुभयतां गतम् ।
तस्मात्कलियुगे विष्णोर्नामकीर्तनमुत्तमम् ॥ ४९ ॥
साधनं भक्तिनिष्ठानां साध्यं चैव प्रकीर्तितम् ।
येन केनापि भावेन कीर्तयन् सततं हरिम् ॥ ५० ॥
हित्वा पापं गतिं यान्ति किमुतच्छूद्धया गुणन् ।
कलौ नामपरा एव सततं द्विजसत्तम ॥ ५१ ॥
उक्ता महाभागवता भगवत्प्रियकारिणः ।
तस्मात्सर्वात्मना विप्र कुरु श्रीकृष्ण कीर्तनम् ॥ ५२ ॥
श्रद्धया सततं युक्त एतदेव महाफलम् ।

इति श्रीसात्वततन्त्रे पञ्चमः पटलः ।।


षष्ठः पटलः।
श्रीनारद उवाच ।

कथितं मे त्वया देव हरिनामानुकीर्तनम् ।
पापापहं महासौख्यं भगवद्भक्तिकारणम् ॥ १ ॥
तत्राहं यानि नामानि कीर्तयामि सुरोत्तम ।
तान्यहं ज्ञातुमिच्छामि साकल्येन कुतूहलात् ॥ २ ॥