- श्री १०८ भैरवाय नमः। भूमिका। विदितमेवैतत्समेषां वृहस्पतिकल्पानां विद्वत्प्रकाण्डानां भारते द्विज. वरैरनुष्ठीयमानेषु कर्मसु यथा वैदिकं, स्मात्तं, पौराणिकं वाऽङ्गं प्रत्यङ्ग- मस्ति तथा तान्त्रिकमपि । यथा प्रत्यहमनुष्ठीयमानायां प्रातरादिसन्ध्यायां दिग्बन्धमुद्राप्रदर्शनादिकम् । तत् सर्वं क्रियत एव । तथान्येषु कर्मसु । एवं यथा वेदानां प्रवर्तको भगवान्नादिनारायणो ब्रह्माणमुत्पाद्य तं वेदान्पा. ठयित्वा तद्वारा संसारे प्रवर्तयति तानिति "यो वै ब्रह्माणं विदधाति पूर्व यो वै वेदांश्च प्रहिणोति तस्मै" इति श्रुत्यैव स्पष्टं प्रतिपादितम्। तथा तन्त्राण्यप्यादिनारायणेन सङ्कर्षणशिवनारदादिभ्यः, तैश्चान्येभ्य ऋषिभ्य एवंरोत्या, अथवा, शिवेन पार्वत्यावेवं रीत्या वा प्रगटीकृतानीति- "यच्चोदितेन हलिना प्रागुक्तं चक्रपाणिना । पारम्पर्यागतं तन्मे गदतश्णुत द्विजाः ॥” (सा०सं०अ०१८) तथा- "प्रथम सात्वतं शास्त्रं सम्यगध्यापितं मया । वासुदेवेन यत्प्रोक्तं शास्त्रं भगवता स्वयम् ॥” (ई०सं० १०५४) तथा- "तथापि सारमुद्धृत्य तन्त्ररूपेण नारद । वर्णयामि यथैवोक्तमीश्वरेण दयालुना ॥" (सा० तं० प०८) इत्यादिवचनजालैः सुस्पष्टम् । एवं यथा वेदानां पूर्वकल्पीयानुपूर्वी स्मृ त्वाऽऽदिनारायणो ब्रह्माणमुपदिशति, तथैव तन्त्राण्यपि गतकल्पीयानुपूर्वी स्मृत्वा शिवनारदादिभ्य उपदिशतीति वेदानामिव तन्त्राणामपौरुषेय. त्वं निर्विवादम् । निर्णयसिन्ध्वादिधर्मशास्त्रीयग्रन्थालोचने बहुषु स्थलेषु तन्त्रस्थानां वचनानामुल्लिखद्भिस्तैस्तन्त्रस्थानुष्ठेयपदार्थसड्ग्रहः स्मृतिः स्थपदार्थसङ्ग्रह इव कियताप्यंशेन कृत इति सुस्पष्टं दूरीदृश्यते । तन्त्रेष्वपि सात्विकराजसतामसभेदेन, वैष्णवशवादिभेदेन, वैदिकावैदि. कभेदेनानेकप्रकारको व्यवहारो यथा दृश्यते, तथा संहिताऽऽगभरहस्या. दिभेदेनापि बहुविधो भेदोऽवलोक्यते । तत्र सात्विकादिभेदः पञ्चरात्रा न्तर्गतेश्वरसंहितायां सुस्पष्टं दृश्यते । तथाहि- "विज्ञाय पुण्डरीकाक्षः अर्थजालं यथास्थितम् । तद्बोधकं प्रणीतं यच्छास्त्रं तत्सास्विकं स्मृतम् ॥ स्वबुद्ध्युन्मेषितस्यैव ह्यर्थजातस्य बोधकम् ॥ ब्रह्मादिभिः प्रणीतं यत् तथा तदृषिभिर्द्विजाः । तस्मात् ज्ञातेऽर्थजाते तु किश्चित्तदवलम्ब्य च । ब्रह्मादिभिः परिश्रुत्य तत्संक्षेपात्मना पुनः ॥
पृष्ठम्:सात्वततन्त्रम्.djvu/७
एतत् पृष्ठम् परिष्कृतम् अस्ति