परमेष्ठी सुरज्येष्ठो ब्रह्मा विश्वसृजांपतिः ।
अब्जयोनिर्हंसवाहः सर्वलोकपितामहः ॥ २०९॥
विष्णुः सर्वजगत्पाता शान्तः शुद्धः सनातनः ।
द्विजपूज्यो दयासिन्धुः शारण्यो भक्तवत्सलः ॥ २१० ॥
रुद्रो मूढः शिवः शास्ता शम्भुः सर्वहरो हरः।
कपर्दी शङ्करः शूली त्र्यक्षोऽभेद्यो महेश्वरः ॥ २११ ॥
सर्वाध्यक्षः सर्वशक्तिः सर्वार्थः सर्वतोमुखः ।
सर्वावासः सर्वरूपः सर्वकारणकारणम् ।। २१२ ॥
इत्येतत्कथितं विप्र विष्णोनामसहस्रकम् ।
सर्वपापप्रशमनं सर्वाभीष्टफलप्रदम् ।। २१३ ॥
मनःशुद्धिकरं चाशु भगवद्भक्तिवर्द्धनम् ।
सर्वविघ्नहरं सर्वाश्चर्यैश्वयप्रदायकम् ॥ २१४ ॥
सर्वदुःखप्रशमनं चातुर्वर्ग्यफलप्रदम् ।
श्रद्धया परया भक्त्त्या श्रवणात्पठनाज्जपात् ॥ २१५ ।।
प्रत्यहं सर्ववर्णानां विष्णुपादाश्रितात्मनाम् ।
एतत्पठन्द्विजो विद्यां क्षत्रिय: पृथिवीमिमाम् ॥ २१६ ॥
वैश्यो महानिधिं शूद्रो वाञ्छिता सिद्धिमाप्नुयात् ।
द्वात्रिंशदपराधान्यो ज्ञानाज्ञानाचरेद्धरेः ॥ २१७॥
नाम्ना दशापराधांश्च प्रमादादाचरेद्यदि ।
समाहितमना ह्येतत्पठेद्वा श्रावयेज्जपेत् ॥ २१८ ॥
स्मरेद्वा शृणुयाद्वापि तेभ्यः सद्यः प्रमुच्यते ।
नातः परतरं पुण्यं त्रिषु लोकेषु विद्यते ॥ २१९ ॥
यस्यैककीर्तनेनापि भवबन्धाद्विमुच्यते ।
अतस्त्वं सततं भक्त्या श्रद्धया कीर्तनं कुरु ॥ २२० ॥
विष्णोर्नामसहस्रं ते भगवत्प्रीतिकारणम् ।