अस्नात्वा स्पर्शनं विष्णोविना शङ्खेन स्नापनम् ।
अशौचे स्पर्शनं साक्षाभुक्ता पादोदकग्रहः ॥ ३० ॥
विना शब्देन पूजा च विना नैवेद्यपूजनम् ।
उच्चासनस्थपूजा च शीते व्यजनवातकम् ॥ ३१ ॥
उदक्यादर्शनं चैव घण्टाया भूनिवेशनम् ।
पौषे च चन्दनस्पर्शो ग्रीष्मे चास्पर्शनं तथा ॥ ३१ ॥
पुष्पं तोयेन संस्पर्शं विना होमं महोत्सवः ।
पूजां कृत्वा पृष्ठदर्शमग्रे च भ्रमणं तथा ॥ ३३ ॥
भोजनं भगवद्वारे अभुक्त्वा च विषादता ।
पादुकारोहणं विष्णोर्गेहे कम्बलवेशनम् ॥ ३४ ॥
वामपादश्वेशश्च कूर्दनं पाकभोजनम् ।
श्लेष्मप्रक्षेपणं चैव तत्तृणैर्दन्तधावनम् ॥ ३५॥
देवाग्रे वाहनारोहो नैवेद्य द्रव्यबुद्धिता।
शालग्रामे स्थिरायां च शिलेति प्रतिमेति च ॥ ३६॥
हरिकीर्तेरसंश्लाघा वैष्णवे नरसाम्यता ।
विष्णौ च देवतासाम्यमन्योदेशनिवेदनम् ॥ ३७॥
एतेऽपराधा द्वात्रिंश द्विष्णोनाम्नामथ शृणु।
वेदनिन्दा नामिन बादः पापच्छा नामसाहसात् ।
सतां नाम्ना शिवे विष्णौ भिदाऽऽचार्याचमानता ॥ ३८॥
नाम्नो धर्मैः साम्यबुद्धिर्दानं श्रद्धाविवर्जितैः ॥ ३९ ॥
श्रुत्वापि श्रद्धाराहित्यं कीर्तने चाप्यहन्मतिः ।
एते नाम्नां द्विजश्रेष्ठ ह्यपराधा मयेरिताः॥४०॥
वर्जनीया नृभिर्यत्नैर्यतो नरककारणाः ।
- श्रीनारद उवाच ॥
विषयासक्तचित्तानां प्राकृतानां नृणां प्रभो ।
अपराधा हरेराशु वर्ज्या नैव भवन्ति हि ॥४१॥