पृष्ठम्:सात्वततन्त्रम्.djvu/७९

एतत् पृष्ठम् परिष्कृतम् अस्ति
५७
सप्तमः पटलः।


तत्प्रसादेन तत्पापानिष्कृतिर्नान्यथा भवेत् ।
अकृत्वा निष्कृतीनेतान्नरकान्नास्ति निष्कृतिः ॥ ५३ ॥
अज्ञानतः कृते विप्र तत्पसादेन नश्यति ।
ज्ञानात्तु द्विगुणं कुर्यादेष धर्मः सनातनः ॥५४॥
पुत्रे शिष्ये च जायायां शासने नास्ति दूषणम् ।
अन्यथा तु कुते दोषो भवत्येव न संशयः ॥ ५५ ॥
केशाकर्षे पदाघाते मुखे च चर्पटे कृते ।
न निष्कृतिं प्रपश्यामि तस्मात्तान्न समाचरेत् ॥ ५६ ॥
इति श्रीसात्वततन्त्रे सप्तमः पटलः ।


श्रीशिव उवाच ॥

अथ ते सम्प्रवक्ष्यामि रहस्यं ह्येतदुत्तमम् ।
यच्छ्रद्धया तु तिष्ठन् वै हरौ भक्तिदृढा भवेत् ॥१॥
देवे तीर्थे च धर्मे च विश्वासं तापतारणात् ।
तद्धित्वा कृष्णपादाम्बुशरणं प्रविशेन्मुदा ॥ २ ॥
शरणं मे जगन्नाथः श्रीकृष्णः पुरुषोत्तमः ।
तन्नाम्नि स्वगुरौ चैव ब्रूयादेतत्समाहितः ॥ ३ ॥
हित्वान्यदेवतापूजां बलिदानादिना द्विज ।
एकमेव यजेत्कृष्णं सर्वदेवमयं धिया ॥ ४॥
नित्यं नैमितकं कार्यं तथावश्यकमेव च ।
गृहाश्रमी विष्णुभक्तः कुर्यात्कृष्णं घिया स्मरन् ॥५॥
एतेषु चान्यदेवानां या पूजा विधिना स्मृता ।
सापि कृष्णार्चनात्पश्चात् क्रियेत हृदि तं स्मरन् ॥ ६ ॥
अन्यदा त्वन्यदेवानां पृथक्पूजां न च स्मरेत ॥
काम्यं निषिद्धं च तथा नैव कुर्यात्कदाचन ॥ ७ ॥
कलत्रपुत्रमित्रादीन् हित्वा कृष्णं समाश्रिताः।
हरिकीर्तिरता ये च तेषां कृत्यं न विद्यते ॥ ८॥
६साए