पृष्ठम्:सात्वततन्त्रम्.djvu/८०

एतत् पृष्ठम् परिष्कृतम् अस्ति
५८
सात्वततन्त्रे-


कृत्वान्यदेवतापूजां सकामां बलिना द्विज ।
भक्तिभ्रष्टो भवेदाशु संसारान्न निवर्तते ॥ ९ ॥
कामात्मा निरनुक्रोशः पशुघातं समाचरन् !
पशुलोपसमं वर्ष नरके परिपच्यते ॥ १० ॥
यज्ञे पशोरालभने नैव दोषोऽस्ति यद्वचः ।
अपि प्रवृत्ती रागिणां निवृत्तिस्तु गरीयसी ॥ ११॥
कृत्वान्यदेवतापूजां पशु हित्वा नराधमाः ।
यदि ते स्वर्गतिं यान्ति नरकं यान्ति के तदा ॥ १२ ॥
स मां पुनर्भक्षयिता यस्य मांसमदाम्यहम् ।
इति पांसनिरुक्तं वै वर्णयन्ति मनीषिणः ॥ १३ ॥
विष्णुभक्तिं समाश्रित्य पशुघातं समाचरन् ।
कृत्वान्यदेवतापूजां भ्रष्टो भवति निश्चितम् ॥ १४ ॥
मानुष्यं प्राप्य ये जीवा न भजन्ति हरेः पदम् ।
ते शोच्या स्थावरादीनामप्येकशरणा यदि ॥ १५ ।।
अहं ब्रह्मा सुरेन्द्राश्च ये भजामो दिवानिशम् ।
ततोऽधिकोऽस्ति को देवः श्रीकृष्णात्पुरुषोत्तमात् ।। १६ ।।
यत्प्रसादं प्रतीक्षन्ते सर्व लोकाः सपालकाः ।
सापि लक्ष्मीर्यच्चरणं सेवते तदनादृता ॥ १७ ।।
ततोऽधिकोऽस्ति को देवी लक्ष्मीकान्ताज्जनार्दनात् ।
यन्नाम्नि के न संयान्ति पुरुषाः परमं पदम् ॥ १८ ॥
धर्मार्थकाममोक्षाणां मूलं यच्चरणार्चनम् ।
ततोऽधिकोऽस्ति को देवः कृपासिन्धोर्महात्मनः ॥ १९ ॥
भजनस्याल्पमात्रेण बहु मन्येत यः. सदा ।
ततोऽधिकोऽस्ति को देवः सुखाराध्याज्जगद्गुरोः ॥ २० ॥
येन केनापि भावेन योऽपि कोऽपि भजन् जनः ।
लभतेऽभीप्सितां सिद्धिं मोक्षं चाप्यकुतोभयम् ॥ २१ ॥