पृष्ठम्:सात्वततन्त्रम्.djvu/८५

एतत् पृष्ठम् परिष्कृतम् अस्ति
६३
नवमः पटलः।


अतस्तादिनमारभ्य पार्वती भुवनेश्वरी ।
मत्सङ्गाद्वैष्णवी भूत्वा मामापृच्छत्सुरेश्वरी ॥ २५ ॥
भवान्महाभागवतः कुमाराद्या महेश्वराः ।
कुबेराद्या देवताश्च नन्दीशाद्याश्च मे गणाः ॥ २६ ॥
पृथग्पृथगपृच्छन्मां कृष्णपादाम्बुजाश्रयाः ।
कथाः परमकल्याणीः सर्वलोकैकपावनीः ॥ २७ ॥
अथ मां पृच्छती वाक्यं पद्वाक्यं च द्विजोत्तम ।
संलिखत्यप्रमत्तोऽसौ गणेशो मत्सुतोऽन्तिके ॥ २८ ॥
मम तेषां च संवाद कला लोकमनोहराः ।
अभवँस्तत्र शास्त्राणि सर्वलोकहितानि वै ॥ २९ ॥
तानि तन्त्राणि श्रोतारः समानीय महीतले ।
स्थाने स्थाने मुनिश्रेष्ठ कथयिष्यन्ति भूरिशः॥ ३० ॥
त्वमप्येनं सात्वताख्यं तन्त्रं भगवतः प्रियम् ।
नैमिषे शौनकादीनां समक्षं कथयिष्यसि ॥ ३१ ॥

श्रीनारद उवाच ॥

श्रुतं भगवतो वक्रात्तन्त्रं सात्वमुत्तमम् ।
तस्मिन्हिंसानिषेधं च श्रुत्वा मे संशयोऽभवत् ॥ ३२॥
वेदेन विहिता हिंसा पशूनां यज्ञकर्मणि ।
यज्ञे वधोऽवधश्चैव वेदविद्भिर्निरूपितः ॥ ३३ ॥
तन्निषेधे कथं श्रौतं स्मार्तं कर्म महेश्वर ।
वर्तेत सर्वलोकस्य इहामुत्रफलप्रदम् ॥ ३४ ॥

श्रीशिव उवाच ॥

प्रवृत्तं च निवृत्तं च द्विविधं कर्म वर्णितम् ।
श्रुत्या स्मृत्या च विप्रेन्द्र काम्यं कामिजनाय वै ॥ ३५ ॥
प्रवृत्तमविरोधेन कुर्वन्स्वर्याति मानवः ।
पुण्यावशेष भूपृष्ठे कर्मसंज्ञिषु जायते ॥ ३६ ।।
निवृत्तमाचरन् योगी भोगेच्छात्यक्तमानसः ।