पृष्ठम्:साहित्यसारः.pdf/17

पुटमेतत् सुपुष्टितम्



साहित्यसारे

विधूतमरतिः प्रोक्ता पुष्पं स्याद्वागुदारता ।
अङ्गानि द्वादशोच्यन्ते गर्भसन्धेरतः परम् ॥ ८३ ॥

अद्भुताहरणं मार्गरूपोदाहरणक्रमाः ।
उद्वेगसंग्रहाक्षेपसंभ्रमास्सानुमास्तथा ॥ ८४ ॥

तोटकातिबले चैव लक्षणं‌ संप्रणीयते ।
अद्भुताहरणं सद्भिः कथ्यते छद्मचेष्टितः ॥ ८५ ॥

तत्त्वसंकीर्तनोल्लासो मार्ग इत्यभिधीयते ।
वितर्कसंयतं वाक्यं रूपके रूपमुच्यते ॥ ८६ ॥

यदर्थोत्कर्षवद्वाक्यं तदुदाहरणं स्मृतम् ।
मनसा चिन्त्यमानस्य प्राप्तिरेव क्रमा मत. ।। ८७ ॥

अरिभिः क्रियमाणा या भीतिस्सोद्वेग इष्यते ।
सङ्ग्रहः कथ्यते सद्भिः सामदानोचितं वचः ।। ८८ ।।

गर्भबीजसमुद्भेदः सद्भिराक्षेप इष्यते ।
प्रियशङ्कासमुद्भूतिः संभ्रमः परिकीर्त्यते ॥ ८९ ॥

अभ्यूहश्चेष्टिताकारैरनुमानमुदाहृतम् ।
संरब्धवचनं प्राज्ञैर्नाट्ये तोटकमुच्यते ॥ ९० ॥

अतिसन्धानमाचार्या नामकेऽतिबलं विदुः ।
अवमर्शस्य यान्यङ्गान्याहुस्तानि वदाम्यहम् ॥ ९१ ॥

अपवादोऽथ संफेटो विद्रवद्रवशक्तयः ।
द्युतिप्रसङ्गछलनव्यवसायाः प्ररोचना ॥ ९२ ।।

विरोधनं विच्छलनमादानं तु त्रयोदश ।
दोषप्रख्यापवादः स्यान्निर्दोषस्येतरस्य वा ॥ ९३ ॥

रोषेण परुषाकारं संफेटः कटुभाषणम् ।
वधबन्धादिदुःखानि नाटकादिषु विद्रवः ॥ ९४ ॥