पृष्ठम्:साहित्यसारः.pdf/40

पुटमेतत् सुपुष्टितम्
३१
तृतीयः प्रकाशः


आवुत्तो गणिकाकान्तो भगवत्यपि वर्णिनी।
अत्तेति गणिकामाता गुरुः कापालिकस्स्मृतः ॥ ६९ ॥

जातेति पुत्रवात्सल्यात् मात्रा पुत्रोऽभिधीयते ।
सर्वावज्ञविशेषोत्थकामचाराभिभाषणे ॥ ७० ॥

हमित्येवाभिघातव्यं सर्वैरिङ्गितगोपने ।
भर्तृमाताऽङ्गनाभिर्वा चेटीभिर्गणिकाऽथवा ॥ ७१ ॥

वार्तासु सर्वदा काममज्जुकेति निगद्यते ।
आयुष्मन्निति वक्तव्यो रथी सारथिना सदा ॥ ७२ ।।

अभीष्टवस्तुसंसिद्धौ येन केनापि चोदितः।
प्रथमः कल्प इत्येव प्रवदत्याप्तनायकः ७३ ।।

प्रतीहारी जनस्सर्वो विजयीत्यभिधीयते ।
वणिक्प्रधानो यो लोके सस्स्मृतः सार्थवाहकः ॥ ७४ ।

सर्वेश्वरः सरसधीः प्रतिबुद्धशास्र
   श्रीवामराशिगुरुपादयुगप्रसादम् ।
विद्वन्मुदे नियतभाषितसर्वभावि-
   विज्ञानकृद्व्याधित साधु निरुक्तमेतत् ॥ ७५ ॥

इति साहित्यसारे तृतीय: प्रकाशः