पृष्ठम्:सिद्दान्तदर्पणम्.djvu/२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तदर्पणे उपवेशभागः १. उपदेशभागः [ ग्रहपर्यया: ] ‘कोटिध्न-रदवेदाः’ प्राक् कल्पे सूर्यस्य पर्ययाः । ‘भूदन्तरददेवेषु 'सप्ताद्यर्था' विधोः, क्षितेः ॥ २॥ अथ चतुर्भिः श्लोकैः सूर्यादीनां कल्पपर्ययाः प्रदश्र्यन्ते 432,00,00,000 कोटिघ्न-रदवेदा: प्राक् कल्पे सूर्यस्य पर्यय[]: ।। २a ॥ इति । ये प्राग्गत्या सूर्यादीनां स्वस्ववृत्तपर्यया: ते कल्पे एतावन्तः स्युः इत्यर्थः । तत्र कोटिघ्ना रदवेदाः सूर्यस्य पर्यया भगणाः । अश्विन्यादिपौष्णान्तो भगणः । ननु मेषादिमीनान्तो भगण इति कुतो न व्याख्यायते ? तेषां तु [परिवर्तेन] पौष्णान्ते भगणः स्मृतः । इति सूर्यसिद्धान्तोक्तेः (२. २७), इह ‘भ'शब्दस्य नक्षत्रवाचकत्वात् । राशि वाचकत्वे हि मेषादिमीनान्तत्वं त्यात् । यद्यपि पुनद्वदशधात्मानं बिभिदे राशिसंज्ञितम् ।। नक्षत्ररूपिणं भूयः सप्तविंशात्मकं वशी । (सूर्यसि० १२.२४-२५) इत्युभयेषां कालपुरुषावयवत्वमविशिष्टम्, तथापि समूहवाचिना गणशब्देना भिधानं नक्षत्रगणस्यैव [यु]क्तम्, अधिकसंख्यात्वात्; न राशिगणस्य अन्यस्मा दल्पसंख्यत्वादिति भावः । अथवा राशिभ्यो नक्षत्राणां प्रसिद्धतर[त्वाद्] ग्रहणं युक्तम् । प्रसिद्धतरत्वं च तेषां [कल्याणाकल्याणभेदात्, तज्ज्ञानस्य कर्मसूपयोगभूयस्त्वाद् इत्याशयः । मूलम्- 1. G. available only from here . 2. वेदाकर्काः (wr.) 3. G. पर्ययः; s0 also in the comments, below . 4. B. F.G. वेदेषु (wr.) ; G. however, gives correctly as 533 in the commentary. व्याख्या–1, G. reads परिघ्यूने oिr परिवर्तन the number