पृष्ठम्:सिद्दान्तदर्पणम्.djvu/२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रविभगणाः कोटिघ्न-रदवेदा एव, न न्यूनाधिकाः । न हि रविः भगणनाम् आचार्यः नानावचनं युक्तम् । चत्वारि त्रीणि द्वे चैकं कृताविषु यथाक्रमत् । दिव्याब्दानां सहस्राणि युगेष्वाहुः पुराविदः ।। तत्प्रमाणैः शतैः सन्ध्या पूर्वा तत्राभिधीयते । सन्ध्यांशकश्च तत्तुल्यो युगस्यानन्तरं हि सः ।। सहस्रयुगपर्यन्तमहर्यद् ब्रह्मणो विदुः । रात्री युगसहस्राणां तेऽहोरात्रविदो जनाः । इत्यादिभिः पुराणेतिहासस्मृतिषु व्यवस्थापितत्वाद् युगाव्दानाम् । रविभगणस्यैव हि देवासुराहोरात्रत्वम्। देवासुराणामन्योन्यमहोरात्रं विपर्ययात् । (सूर्यसि० १.१४; १४.२०) इति द्युर्निशोव्र्यत्यासे सत्यपि नाहोरात्रपरिमाणभेदः । उत्तरायणमध्ये विषुवत्संज्ञे काले देवानामुदयः । तदेवासुराणामस्तमयश्च । दक्षिणायनमध्ये विषुवति देवानामस्तमयोऽसुराणामुदयश्चेति भेद ननु उत्तरायणं कृत्स्नं देवानामहः, दक्षिणायनं रात्रिश्च शिशिरपूर्वमृतुत्रयमुत्तरं ह्ययनमाहुरहश्च तवापरम् । भवति दक्षिणमन्यवृतुत्रयं निगदितो रजनी मरुतां च सा ।। इत्यादिस्मृतेः । नैष दोषः । तत्राप्युन्नतकालो दिनत्वेन व्यवस्थितः, रात्रिकालश्च रात्रितया । आ मध्याह्नावार्धरात्राद् दिवा रात्रिरिति क्रमात् । इति पाराशरे दृश्यकालो दिनत्वेन विवक्षितः, अदृश्यकालो रात्रिश्च । यतोऽर्ध रात्रे रवेर्दिनबलं शून्यम्, ततः ऋक्रमण वर्धमानं मध्याह्ने परिपूर्ण स्यात् । ततः क्रमेण हीयमानं अर्धरात्रे शून्यतां याति, इति बलनिरूपणावस्थायामेव प्रारोहण कालस्य दिवाख्या, अवरोहणकालस्य रात्र्याख्या च । उत्तरायण च देवाना मुन्नतिकालः; दक्षिणायने रवेरवनतिश्च, मेरुसंस्थत्वात् तेषाम् । उद्यन्नद्य मित्रमह आरोहन्नुत्तरां दिवम् । हृद्रोगं मम सूर्यः हरिमाणं च नाशय ।