पृष्ठम्:सिद्दान्तदर्पणम्.djvu/३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उदगादयमादित्यो विश्वेन सहसा सह । द्विषन्तं मह्य रन्धयन् मो अहं द्विषते राधम् । । (ऋग्वेदः, १.५०.११, १३) इत्यादि मन्त्रवर्णतश्च आरोहतः सूर्यस्थ इष्टफलप्रदत्वं बलवृद्धिश्चावगम्यते । अतो युज्यत एव देवभागस्थान् प्रति उत्तरायणे अभीष्टफलप्रदत्वं रवेः । दक्षिणायने चासुरभागोद्गमनात् तदपेक्षया बलवृद्धेः तदिष्टफलप्रदत्वाद् अनिष्टफलप्रदत्वं च नो युज्यते, । द्विषन्तोऽन्योन्यमाश्रिताः' इत्युक्तेः । तस्मात् ‘उत्तरायणे कृतमुपनयनादिकं इष्टप्राप्तये, दक्षिणायने अनिष्टप्राप्तये च स्यात् । इत्युदगयनादिविधेः प्रशंसार्थमेव उत्तरायणस्य दिवाऽख्यत्ववचनमित्यविरोधः । ‘विषुवतोरुदयास्तमयेन देवासुराणाम्' इति यदुक्तं तद् युक्तमेव । सुरासुराणामन्योन्यमहोरात्रं विपर्ययात् । (सूर्यसि० १.१४; १४.२२) इति चोपपद्यते । एवं रविभगणस्य दिव्याहोरात्रत्वाद् रविभगणानां षष्ट्यु त्तरशतत्रयमेव दिव्यं वर्षम् । उक्तं च षष्टिसङ्गुणं (? गुणितं) दिव्यं वर्षमासुरमेव च । तद्द्वादशसहस्राणि चतुर्युगमुदाहृतम् ।। सूर्याब्दसंख्या द्वित्रिसागरैरयुताहतैः । सन्ध्यासन्ध्यांशसहितं विज्ञेयं तच्चतुर्युगम् ॥ इति युगरविभगणानां व्यवस्थितत्वात् केनचिदपि नावापोद्वापौ कायौं । अतः कल्पभगणा अपि कोटिघ्नरदवेदा एव सर्वेवर्वाच्याः, युगसहस्रात्मकत्वात् कल्पाख्यस्य ब्रह्मादिवस्य । य[तश्चा]ब्वा भटस्यापि द्वित्रिवेवहतायुताः । युगानां तन्मते कल्पे त्वष्टोत्तरसहस्रकाः] । 435,456 कल्पार्काब्दास्ततोऽस्याङ्गेष्वब्धिभूताग्निसागराः । कृतादीनां चतुणाँ स्यात् तुल्यत्वाद् युगपादता ।। • 432,00,00,000 ‘अह्नीनेन ननानेद्रे गावः’ कल्पेऽर्कपर्ययाः ।।