पृष्ठम्:सिद्दान्तदर्पणम्.djvu/३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सिद्धान्तदर्पणे उपदेशाभागः


 कुतः पुनभोदयाः स्वभगणोना स्वोदयाः स्यु ? भचक्र विपरीतदिक्त्वात् ग्रहभ्रमणस्य । भचक्र हि प्रत्यग् भ्रमति । ग्रहास्तु तत्र भचक्रे प्राङ्मुखा भ्रमन्ति । अतो युज्यत एव भानां प्रत्यग्भ्रमणसंख्यातो ग्रहस्य प्रागभ्रमणसख्यान्यूनत्व स्वस्य प्रत्यभ्रमणानाम् । तस्माद् रावभगणाना आक्षदिवसा सावनाः स्युः । यतो भानोः प्रत्यग्भ्रमः सावनो दिवसः, [स] एव भूदिवसश्च । यथोक्तम्

उदयादुदयं भा[नो:] भूमिसावनवासराः ।

(सूर्यसि० १.३६)

इति । तस्मादिहोक्ता भूपर्यया एव प्राक्षंदिवससंख्या । स हि रविभगणोनो

15,82,23,78,39,500
‘अनुमाधोगहंसागुप्रहे मध्य' आक्षजा ।
15,77,91,78,39,500
‘स्नाने शुद्धिगृहस्थस्य धीस्था सा मत्र्य'सावनाः ॥
कल्पार्कभगणानिन्दोर्भगणेभ्यो विशोध्य तु ।
ज्ञेयाश्चन्द्रमसो मासा,स्त्यक्त्वा सौररांस्ततोऽधिकाः ।।
भवेयुर्दिवसा, मासाः सर्वेषां त्रिंशता हताः ।
सावनाहानि चान्द्रेभ्यो द्युम्यः प्रोझ्य तिथिक्षयाः ॥
इतिहासपुराणेभ्यो लोकाच्चातीतवत्सराः ।
वक्ष्यत्यत्रापि यातानि युगान्यब्दांश्च तद्गतान् ।
“युगं कल्पसहस्रांशो मनुस्तान्येकसप्ततिः ।
सन्धयः कृततुल्यास्तदाद्यन्ताभ्यन्तरेष्वपि ।।
युगस्यापि दशांशोऽब्धित्रिदुष्येकध्नः कृतादि च ।
अष्टाविंशे युगे तिष्यः सप्तमस्य मनोरयम् ॥”
(सि० दर्पणम्, ११-१२)
इत्यतो वर्तमानात् प्राक् कलेः काल इहोदितः ।
कलेर्यातं गुरोज्ञत्वा फाल्गुनान्ते मुहुः स्वयम् ।।