पृष्ठम्:सिद्दान्तदर्पणम्.djvu/३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तदर्पणे उपवैशभागः ननु रवेः इतरेभ्यः प्राधान्यात् (? प्राथम्यम्) । चन्द्रस्य द्वितीय[त्व]- मप्यस्तु । कुतः पुनः कुजस्य तृतीयत्वम् ? सर्वेभ्योऽल्पत्वाच्चरमत्वमेव युज्यते । भृगु-गुरु-बुध-शनि-भौमानामेव क्रमेण तृतीयादित्वमुपपद्यते । नवभिर्भगोस्तैर्दूव्यधिकैर्दूव्यधिकैर्यथा श्लक्ष्णा. । (आर्यभटीयम्, गोल०४) इत्युक्तेः । निसर्गबलक्रमश्च [स]' एव । तस्माद् वारपत्वक्रमेणापि तेनैव भवितव्यम् । नैतदस्ति । काल-होरा-दिनाद्याधिपत्यं कक्ष्यात्मानुसार्येव स्मर्यते भानामधः शनैश्चर-सुरगुरु-भौम-ार्क-शुक्र खुध-चन्द्राः । तेषामधश्च भूमिर्मेधीभूता खमध्यस्था सप्तैते होरेशाः शनैश्चराद्या यथाक्रमं शीघ्राः । शीघ्रप्रक्रमाच्चतुर्था भवन्ति सूर्योदयाद् दिनपाः ।। (आर्यभटीयम्, काल० १५-१६) इति । दिनाधिपत्यस्य किल होराक्रमेण चतुर्थत्वमपि तत्तद्दिनाद्यकालहोरेशस्य वारेशत्वादेव स्यात् । यतः अहोरात्रकाले कालहोराश्चतुर्विशतिः सन्ति । [ताभ्यः]* एकविंशत्यैव त्रिः परिवृत्तौ । शिष्टानां तिसृणां चतुर्थावृत्तिगतानां पूर्वास्विव तदहोरात्राद्यकालहोरेशात्प्रभृति शीघ्रक्रमेण त्रयाणां ग्रहाणां परेद्युरुदयात्प्रागेवातीताः [होराः] स्युः । या पुनश्चतुर्थी परेद्युराद्या कालहोरा तदीशः पूर्वेद्युराद्यकालहोरेशात्प्रभृति कक्ष्याक्रमश्चतुर्थ. इति क्रमप्राप्तमेव परेद्यु पूर्ववारेशात्प्रभृति कक्ष्याक्रमेण चतुर्थस्य वाराधिपत्यम् । अत एव सूर्यानन्तरं चन्द्रस्य, न पुनस्ताराग्रहेभ्यः, प्रकृष्टप्रकाशत्वात् । चातुथ्र्य च शीघ्रक्रमापेक्षया । अर्काच्चन्द्रस्य यतोऽर्कगतेर्महती शुक्रगतिः स्यात्, ततोऽपि महती बुधस्य, ततोऽपि चन्द्रस्य, इत्यर्कशुक्रबुधचन्द्राणां क्रमाच्छीघ्रगतित्वात् क्रमेण प्रकर्काच्चतुर्थश्चन्द्रमाः । एवं कालहोराक्रमत्वम् । वारेशानां कालहोरात्रक्रमश्च कक्ष्याक्रमवशादित्यवगन्तव्यम् इत्यभिप्रायात्(? प्रायः) । द्वि नव द्वादशांशो मता कालहोरा पतिस्तस्य पूर्वस्य वाराधिनाथः । ततः षष्ठषष्ठा क्रमेणेतरेषां िनशायां तु वारेश्वरात् पञ्चमाद्याः। इति यदुक्तं तत्र निमित्तनिमितिनोव्र्यत्यासः स्यात् । व्याख्या-1. Ms. reads ता forः स 2. Ms. reads : कक्ष्यात्मा एवानुसारेव 3. Ms. reads ता स्युः for ताभ्यः