पृष्ठम्:सिद्दान्तदर्पणम्.djvu/३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगमानादिः युगस्यापि दशांशोऽ-ब्धि-त्रि-द्वये-क-घ्नः कृतादि च । अष्टाविंशे' युगे' तिष्यः सप्तमस्य मनोरयम् ॥ १२ ॥ [ भगणांशाः ] द्वादश-त्रिंश-षष्ट्यंशा भगणाद् भांशलिप्तिकाः । [ प्रहयोजनभुक्तिः ] 'ग्रहयोजनश्चक्तिः स्याद् दशध्नेन्दोः' कलागतिः ॥ १३ ॥ [ मूमीन्दुरविव्यासाः ] भूगोल: ‘खेषुदिग्व्यासो' भमध्ये व्योम्न्यधः स्थितः । तिथ्यग्नि'योजनश्चन्द्रो ‘दिग्वेदाब्धि'मितो रविः ॥ १४ ॥ [ अवन्तीस्थानम् ] उदक् पञ्चदशेऽवन्ती लङ्कायाः परिधेर्भुवः । [ नक्षत्रपरिधिः ] रवेः षष्टिगुणे' भानि प्रत्यगीरयति ह्यतः ॥ १५ ॥ [ अपक्रमवृत्तस्थितिः ] भगोलमध्यवृत्ताधे वायुगोलस्य मध्यतः । अपक्रान्ते चतुर्विंशत्यंशैः सौम्यतराशयोः' ॥ १६ ॥ 13

  • *** तेषां द्वादशाराणामन्तरालगता ये द्वादशापक्रममण्डलखण्डा

तेषामेव न केवलं मेषादिराशित्वम् । तं तं खण्डमभितः यद्यद् द्वयोर्द्धयोर्मण्डल तलार्धयोर्विवरं तत् कृत्स्नमपि तत्तद्राश्यात्मकमेव । मूलम्- 1. F. अष्टविशे 2. D. E. F. युगो 3. D. दश for ग्रह (corrupt). Ms. C commences from here. 4. C. न्दु for न्दो 5. D. F. भूगोलं (wr.) 6. D. स्थितिः (wr.) 7. E. त्रिथ्न्यग्नि (corrupt) 8. A. षष्टिगुणो 9. D. E. तररांशयो : याख्या-1. Ms. commences here after the gap,