पृष्ठम्:सिद्दान्तदर्पणम्.djvu/४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

14 [ अयनचलनम् ] ‘भांशैश्चलति तद्योगः प्राक्प्रतीच्योः पृथक् पृथक् । वृद्धिहसश्च दिव्याब्दैः पञ्चभिश्च क्रमोत्क्रमात् ॥ १७ ॥ सिद्धान्तवर्पणे उपदेशभागः तत्र निरक्षदेशे मीनमेषसन्ध्युदये पूर्वोक्तानि तन्मण्डलानि अपमण्डल तिर्यञ्चि बध्नीयात् । तानि षड अपमण्डलतुल्यान्येव । तेष्वेकं पूर्वापर स्वस्तिकलग्नं उत्तरस्वस्तिकादूध्र्व दक्षिणस्वस्तिकादधश्च दक्षिणोत्तरमण्डले परमापक्रमतुल्यान्तरे बध्नीयात् । द्वितीयमपि दक्षिणोत्तरमण्डले प्रथममण्डल सम्पात एव सम्पातं कृत्वा अपक्रममण्डले मेषान्ते तुलान्ते च बध्नीयात् । तयोः प्राग्दिग्गतमन्तरालं कृत्स्नं मेषादिराशिः, प्रत्यग्गतं कृत्स्नं तुलादिराशिः । प्रथमद्वितीयसम्पातयोरेव च तृतीयमपि वृषकीटान्तयोर्बध्नीयात्। एवमेव अन्यानि त्रीण्यपि प्रपत्रक्रममण्डलद्वादशांशान्तरालानि बध्नीयात् । एवं द्वादशविवराणि कृत्स्नशा द्वादश राशयः स्युः । अत उक्तम् यत्र क्वापि च दृष्टं ज्योतिर्मेषादिराशिगं तस्मात् । (गोलसारः, २. ८ c-d) ।। १६ ।। तत्र भगोलावयवानां वायुगोलावयवैः सह सम्बन्धो न नियत इति वायुगोलावयवेषु भगोलावयवानां संयोगविप्रयोगप्रकारः प्रदश्र्यते 27 ‘भां'शैश्चलति तद्योगः प्राक्प्रतीच्योः पृथक् पृथक् । वृद्धिहसश्च दिव्याब्दैः पञ्चभिश्च क्रमोत्क्रमात् ॥१७॥ इति तद्योगः प्रकृतयोर्घटिकापक्रममण्डलयोर्योग: चलति स्पन्दते । कथम् ? प्राक्प्रतीच्योः पृथक् पृथक् भांशैश्चलति । स यदा प्राक् चलति तदा अयनचलनम् ऋणम् । तत् सप्तविंशतिभागान्तम् । तथा प्रत्यक् चलनं धन[मपि]' तावत् स्यात् । एवम् मीनमेषसन्धिमभितः चतुष्पञ्चाशद्भागानां घटिकामण्डलगतै स्तावद्भिरंशैः सम्बन्धः स्यात् । एवं जूककन्यागतानामपि तावतां तावद्भि र्घटिकामण्डलांशैः सह संयोगः स्यात् । कियता कालेन सप्तविंशतिभागचलनं इत्याह व्याख्या-1. वृद्धिहसश्च दिव्याब्दैः पञ्चभिश्च क्रमोत्क्रमात् ।। १७ b ।। Ms. ऋणम- for धनमपि