पृष्ठम्:सिद्दान्तदर्पणम्.djvu/४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चभिर्दिव्याब्दैः ऋणं परिपूर्ण स्यात् । पुनश्च पञ्चभिः कृत्स्नस्य क्षयश्च स्यात् । एवमात्मकमपि ऋणं धनं वा यावता कालेन यावद् वर्धते तत् पुनरुत्क्रमेण तावता कालेन तावद्धीयते । पञ्चमे दिव्याब्दे यावती वृद्धिः षष्ठे हासश्च तावानेव इत्यादि द्रष्टव्यम् । तेन विषुवत्प्रत्यासन्नानां नक्षत्राणां दक्षिणोत्तरदिक्चलनं ईषदधिकमेव विंशतिभागात्मकं स्यात् । तत्र चित्रायाः कन्यातुलासन्धिस्थत्वाद् अयनचलनाभावे भुजाया अप्यभावात् कन्यातुला न्धेरपक्रमस्याप्यभावः । ततश्चित्रायाः स्वक्षेप एवापक्रमः । तद्विक्षेपचापं च भागद्वयं सूर्यसिद्धान्ते स्मर्यते याम्यदिक्का -“दक्षिणे रुद्रयमलाः' (सूर्यसि० ८. ७) इति । हस्तचित्रयोः क्रमेण एकादशभागा भागद्वयं च क्रमाद् विक्षेपावित्यर्थ । ऋणात्मकायनचलनपरिपूतौ तु राशिषट्काद् भांशेषु त्यक्तेषु भाग त्रयाढ्यं राशिपञ्चक शिष्यते । तत उदग्गोलगतस्तदपक्रमः । तद्भुजा च राश्यष्टमाशतुल्यचापभागसप्तकः सपञ्चमांशः'। अत्र सप्तममपक्रमचापं करोतीति तदन्तरं च द्व्यशीतिः । तत्पञ्चमांशः षोडशकलाः सावयवाः । तत्संयुक्तं ‘सङ्गतम्’ (६३७') इति । तद्विक्षेपचापयोः दिग्भेदात् ततो भागद्वयगते विक्षेपे त्यक्ते सति शिष्टं अष्टौ भागाः, षट्त्रंशत् कलाश्च (८० ३७') । धनायनचलने परिपूर्णे तु दक्षिणगोलगतं भुजाचापम् । अपक्रमचापं च पूर्वोक्तमेव । तद्विक्षेपयोर्दिगैक्यात् तत्संयोगस्फुटो दक्षिणापक्रमः, द्वादश भागा: सप्तत्रिंशत्कलाश्च (१२० ३७'). ततस्तत्संयोगः सपादा एकविंशति भागाः । परमायनचलनकालयोर्मध्याह्नप्रदेशान्तरालचापं तद्दक्षिणोत्तरमण्डल गतं कृत्स्नं सममण्डलाद् दक्षिणगतमेव प्रायशो भारतखण्डे । कन्याकुमार्या दक्षिणतः सिंहलादिष्वेव दक्षिणोत्तरशलाकयोः खण्डशः (?) स्युः । रेवत्या अपि मीनान्तात् प्रत्यक् कलादशकान्तरस्थत्वात् दक्षिणोत्तर मण्डले सपादैकविंशतिभागाः द्वयोः कालयोर्मध्याह्नश्चान्तरालगताः स्युः । रेवत्यास्तु विक्षेपचापं सौम्यं भागपञ्चकं स्मर्यते । ततस्तद्विक्षेपद्धययोगस्तदप क्रान्तकलाचतुष्कोनः सदापि । रेवती च तयोर्मध्याह्नच्छायान्तरम् । अगस्त्यस्य तु मिथुनान्तगतत्वात् पादोनं भागत्रयमेव प्रयनचलनहेतक दक्षिणोंत्तरमण्डल गतं चलनं स्यात् । एवं कर्किद्वितीयभागस्थस्य' पुनर्वसोरपि तद्वदुदग्विक्षेपस्य भागषट्कत्वाद् अवन्त्यां सममण्डलादुत्तरत एव सर्वदा मध्याह्नप्राप्तिः । याख्या-1. The Ms. reads सप्तक सपञ्चमांशाम । 2. The Ms. reads भागस्थः स्यात् for भागस्थस्य