पृष्ठम्:सिद्दान्तदर्पणम्.djvu/४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अयनचलनम् [ विदितकाले अयनस्थितिः ] कलिसन्ध्याष्टमांशे स्वशतांशाढ्ये गते ततः । धनुर्मिथुनयोर्मध्ये प्रायशस्त्वयने उभे ।। १८ ।। मूलम्- 1. व्यत्ययेन चलनात् उभयोर्मण्डलयोरपि प्रत्यगयनचलनतुल्यान्तरे संयोगः स्यात् । ततश्च अयनचलनाज्जायमानो विशेषः संस्कृतायनरविबाहुजचरप्राण कलान्तर संस्कारयोरेवान्तर्भवति । घटिकामण्डलस्य चलने पूर्वापरदिशोः तद्वशात् कालतो भेदः स्यात् । स च नोपलभ्यते । अतो न वायुगोलस्य, नोभयोरपि । तस्माद् भगोलस्यैव चलन-मिति सिद्धम् ।। १७ ।। तत् स्वकाले कियदित्याह कलिसन्ध्याष्टमांशे स्वशतांशाये गते ततः । धनुमिथुनयोर्मध्ये प्रायशस्त्वयने उभे ।। १८ । । 17 इति । दिव्याब्दशतमिता खलु काले सन्ध्या स्मर्यते । तस्याष्टमांशः सार्ध दिव्याब्दद्वादशकः । स च सौराब्दानां पञ्चचत्वारिंशत्-शतमितः, तस्य शतांशः पञ्चचत्वारिंशदब्दः । ततः स्वशातांशाढय: सन्ध्याष्टमांशः ‘शिव शिव' (४५४५) इति कल्यब्दैस्तावति याते उभे अयने उत्तरदक्षिणाख्ये प्रायशो धनु मिथुनमध्ये स्तः । तदा अयनचलनांशा: धनात्मकाः पञ्चदशसंख्या बभूवुः । प्रायिकत्वं च कलाष्टकाधिक्यात् । यतो भार्गव-परमेश्वराचार्येण अस्मत्परमगुरुणा ‘चलांशा स्त्वम्’ (४५३६) इति कल्यब्दे परीक्ष्य पञ्चदशांशपूर्तिनिर्णीता । अतः सन्ध्याष्टमांशशतांशस्य वा प्रायिकत्वम् । स्वजन्मकालज्ञापन्नाथ चैवमुक्तम् । तदाहर्गणश्च ‘त्यजाम्यज्ञतां तर्के: (१६,६०,१८१) (A. D. १४४३) इति । ननु तदा सूर्यसिद्धान्ते अयनचलनांशाः चतुर्दशैव सार्धा दशकलाश्च । ततोऽत्रोक्तम्-“सार्धकलोनांशकाधिकम्' इति । नैष दोषः । तत्रोक्तस्य गणितस्य स्थौल्यं स्वयमेव ख्यापितम्, पुनः परीक्षणेन निर्णयस्य प्रदर्शनात् । अतः सिद्धम्–“परीक्षणेनैव तद्व्यक्तिः' इति । मानसोक्तं तु—द्वाविंशति कलाधिकांशकपञ्चदशकम् । अन्यैः कैश्चित् प्रदर्शितं ततोऽप्यधिकम् ।। १८ ।। एवंभूतभगोलावयवविशेषेषु भादिषु रवीन्द्वादिचारवशादवगतेषु तारा तिथ्यूतुमासायनादिकालविशेषेषु श्रौतस्मार्तकर्माणि विधीयन्ते । तच्चारश्च मध्यमचाराद् भिन्न इति मध्यमस्य स्फुटीकरणेनैव कालविशेषज्ञानं शास्त्र D. गतेस्ततः (corrupt )