पृष्ठम्:सिद्दान्तदर्पणम्.djvu/४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

18 सिद्धान्तदर्पणे उपदेशभागः मूलम्- 1. ग्रहभ्रमणवृत्तानि गच्छन्त्युच्चगतीन्यपि । मन्दवृत्ते' तदर्केन्द्वोर्घनभूमध्यनाभिकम् ॥ १९ ॥ मध्यार्कगति चान्येषां तन्मध्यं शीघ्रवृत्तगम् । तेषां शैध्यं भचक्रान्न विक्षिप्तं गोलमध्यगम् ॥ २० ॥ शैघ्रत्वेन तदंशैः स्वं प्रमायोक्तं ज्ञशुक्रयोः । मन्दवृत्तस्य चैवात्र क्षयवृद्धी स्वकर्णवत् ॥ २१ ॥ [ मन्दशीघ्रवृत्तानि ] प्रयोजनं स्यात् । मध्यमस्फुटादिविवेकश्च गोल एव प्रदश्र्य इति गोलस्वरूपं संक्षेपतः प्रदश्र्य तद्गतानि स्फुटोपयोगीनि मण्डलानि प्रदर्शयति प्रहभ्रमणवृत्तानि गच्छन्त्युच्चगतीन्यपि । मन्ववृत्ते तदर्केन्द्वोर्घनभूमध्यनाभिकम् ।। १९ ।। मध्यार्कगति चान्येषां तन्मध्यं शीघ्रवृत्तगम् । तेषां शैघ्यं भचक्रान्न विक्षिप्तं गोलमध्यगम् ।। २० ।। शैघ्रत्वेन तदंशैः स्वं प्रमायोक्तं ज्ञशुक्रयो । मन्दवृत्तस्य चैवात्र क्षयवृद्धी स्वकर्णवत् ॥ २१ ॥ तद् ग्रहभ्रमणवृत्तं, ग्रहो यत्र भ्रमति तत्र ग्रहभ्रमणवृत्तम् । ग्रहाणां बहुत्वात् तद्भ्रमणवृत्तान्यपि बहूनि स्युः इति बहुवचनप्रयोगः । तान्यपि गच्छन्ति । ‘अपि'शब्देन ग्रहाः समुच्चीयन्ते । तानि कियद्गतीनि इत्याह उच्चगतीनीति । उच्चस्य गतिर्येषां तानि उच्चगतीनि । क्व पुनस्तानि गच्छ न्तीत्यत आह-मन्दवृत्त इति । भचक्रलिप्ताशीत्यंशैः त्रि (३)-अश्व(७)- अष्टया(१६)दिभि: परिमितं स्वं स्वं प्रतिमण्डलं भ्रमति । तच्च क्वावतिष्ठत इत्याह--तदर्केन्द्वोर्घनभूमध्यनाभिकमिति । घनभूमध्यमेव नाभिर्यस्य तद् घनभू मध्यनाभिकम्। अर्केन्द्वोः मन्दवृत्तमेव घनभूमध्यनाभिकम्, नान्येषाम् । तेषां नानादेशनाभिकमेव । केषु देशेषु तर्हि तन्मध्यम् इत्याह G. मान्दे वृत्ते मध्यार्कगति चान्येषां तन्मध्यं शीघ्रवृत्तगम् ।। २० a ॥ 2. A-F. शेघ्र